________________
ज्ञानप्रमोदिकावृत्तिः
३७
काशब्दं कायन्ति वा काकाः, घूकारयः । ते एव काकाः ; स्वार्थ कः, तदनु कर्मधारये । अकुकौकसश्च ते काककाश्च, तथा । तेषां अक्का इव जननी इव, पालनत्वात् । यद्वा अक्का माता यस्मिन् [ यस्याम् ? ] वासः, तथा । पुनः किंभूतः ? ऋक्वा कुकुककाङ्ककुः ऋच्यते स्तूयते आभिरिति ऋचः वेदवाण्यः, तासां काकवः वक्रोक्तयः । कुकिवृकि आदानेताः । कुकति वक्ति इति कुक्वाकुकुकः एतादृशो यः को विधाता, स: के उत्सङ्ग यस्य स विष्णुः तस्य, कुः स्थानमिव यः स', हरेरणवशा. यित्वात् ॥१२॥ इत्येकव्यजनचित्रम् ।
कुवेन्दिवाकराश्लेषं दधच्चरणडम्बरम् ।
देव यौष्माकसेनायाः करेणुः प्रसरत्यसौ ॥१३॥ करेणुपदात्ककारच्युतकम् कुर्वन् । हे देव, यौऽमाकसेनायाः - युष्यन्त इति यूयं, 'युष्यसिभ्यां मदिक्' [हे उ. ८९९], तेषामियं यौष्माकी, सा चासौ सेना च यौष्माकसेना, तस्याः, युष्मदीयचम्वा।' असौ करेणुः करोति प्रमोद करेणुः; कृद्वभ्यामेणुः । 'करेणुर्गजहस्तिन्योः' इत्युणादिवृत्तौ । गजः प्रसरति किं कुर्वन् ? दिवा व्योम्ना साकं कराग्लेषं शुण्डादण्डागलेषं निर्मिमाणः । पुनः चरणानामाडम्बरं दधदिति । शतरिनाभ्यस्ताच्छतुरिति नुम् प्रतिषेधे । दधत् बिभ्रत् , स्थवीयस्त्वात् । यद्वा चमुना रणस्य आहवस्य, आडम्बरं दधत् । अथ ककारच्युतके रेणुः प्रसरति । दिवाकरस्य रवे: आश्लेष कुर्वन् । चरणडम्बरं दधत । इत्थं व्यञ्जनच्यतकम ॥१३॥ वक्रोक्तेः स्वरूपं विभाव्यते-----
प्रस्तुतादपरं वाच्यमुपादायोत्तरप्रदः ।
भङ्गश्लेषपदेनाह यत्र' वक्रोक्तिरेव सा ॥१४॥ यत्र उत्तरप्रवृत्तौ प्रस्तुतात् अवसरलन्धादर्थात् , अपरं वाच्यं गृहीत्वा, उत्तरप्रदायकः खण्डेन शब्द. खण्डेन, श्लेषपदेन च द्वितयार्थवाचकेन एकेनारवेण निरूपयति, सा वक्रोक्तिरुच्यते । ‘एव' पदेनास्याः श्लेषालकृतित्वं प्रतिषिद्धमित्युक्तम् ॥१४॥ अथ भङ्गादृष्टान्तमभिधत्ते
नाथ! मयूरो नृत्यति तुरगाननवक्षसो कुतो नृत्यम् ।
ननु कथयामि कलापिनमिह सुखलापी प्रिये ! कोऽस्ति ॥१५॥ काचन वनिता केकिनं नृत्यन्तं निरीक्ष्य वक्ति । हे नाथ । नाथति ईष्टे नाथः, तस्य आमन्त्रणे तथा प्राणेश । मयरः मीनात्यहीन् मयूरः, मीमसीत्यरः, महयां रौति इति वा; पृषोदरादित्वात् मयरः, नृत्यति सधवो भङ्गेन व्याचष्टे । हे मृगाक्षि, " किन्नरस्तु किंपुरुषस्तुरङ्गवदनो मयुः " [ २.१.८ ] इत्युक्तमभिधान चन्तामगौ हेमसूरिपादैः । अतः तुरगाननो मयुः किन्नरः, तस्य उरो वक्षः, तस्य नर्तनमेव कुत.? कान्ता जल्पति- " नन्वहं कलापिनं निवेदयाभि" ।कलापो मयूरपिच्छं अस्य अस्ति इति कलापी, तं कलापिनम् । रमणः ब्रूते- हे नितम्बिनि, इह स्थले के सातं लपति भाषते इति कलापी । को विद्यते ? भङ्गपदैः उत्तरं प्रादायि ।।१५।। 9. अब पा. पु. पुस्तकयो: विशेष-'युम् इति सौत्रोतो मदिक् प्रत्ययः'। 10. मुखे-यु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org