________________
ज्ञानप्रमोदगणिनिबद्धा पुनः किंभूतः ? गतं आ समन्तात् , क्षरणं क्षरं च्यवन येभ्यः तैः गताक्षरैः पात्रैः पत्रसमूहः; यद्वा गतं अआवा इत्यक्षरं येभ्यः तैः पात्रे पणैः जुष्टः इत्यर्थः । विटादिकारमात्राच्युतकम् । वट इति इदमपि स्वरचित्रं निर्यदिकारस्वरत्वेनाद्भुतं भवति ॥१०॥
धर्माधर्मविदः साधुपक्षपातसमुद्यताः ।
गुरूणां वञ्चने निष्ठाः नरके यान्ति दुःरिवताम् ॥११॥ वञ्चनपदात् बिन्दुच्युतकं वचनमिति । गुरूणां, वंच्यते वंचन तस्मिन् वचने निष्ठाः परायणाः मनुजाः । नरके, नृणाति शिक्षयति पापिनः नरकः; 'दृकन इत्यक.' [हे. उ. २७ नराः । कायन्ति अस्मिन् वा, तस्मिन् । श्वभ्र दुःखितां प्राप्नुवन्ति । किंलक्षणाः ? धर्ममधर्ममिव धर्मविरुद्धमिव विदन्ति इति धर्माधर्मविदः । पुनः कीदृशाः ? साधयन्ति कार्याणीति साधवः 'कृवापाजीत्युण्' [हे. उ. १] सज्जनाः, तेषां पक्षः पच्यते कालेन पक्षः । मावावदोति सः, तस्य पतनं पातो नाशः, तत्र समुद्यताः विहितोत्साहाः । अथ कचनपदात् बिन्दुच्युतके वचनं भवति । हे नरमनुष्योत्तमगुरूणां वप्त. प्रमुखाणां, वचने आज्ञावचसि, आसक्ताः । के मानवाः दुःखितां यान्ति ? अपि तु न केऽपि इत्यर्थः । किंविशिष्टाः ? धर्मा० वृषा एनः व्यक्तिमन्तारः । पुनः कीदृशाः ? साधूनां पक्षपातः पक्षाभ्युपगमः सहायीभावः, तत्र समुद्यताः प्रवणाः, उपकर्तारः इति अर्थः । वचनं पदात् विदि अवयवे । विद्यते अनेनेति अपष्ट्वादय इति क्तु प्रत्यये बिन्दुः । च्यवते स्म च्युतं, 'स्वार्थे के' [हे. व्या. ४.४.६०] च्युतकं तस्य, च्युतकं बिन्दुच्युतकं वचनमिति ॥११॥
एकव्यञ्जनचित्रं निरूपयति । श्रीमदरिष्टनेमिनिर्वाणमहाकाव्ये राजीमतीपरिहाराधिकृतौ सागरेडायाम्
ककाकुकं ककेकाङ्क केकिकोकैककुः ककः ।
अकुकौकः काककाक्व कुक्वाकुकुककाङ्ककुः ॥१२॥ एकव्यञ्जनचित्रम् । ककाकु इतीदं पद्यमस्ति । कको नीरनिधिर्विद्यते । केन ? सलिलोपलक्षितः । कः पवनः यत्र । अथवा केन ? समीरेणेरितं, कं उदकं यत्र । कमेव ? [कमिव ? । कः आत्मा यस्य सः वा ककः । किविशिष्टः ? ककाकुकङ्ककेकाङ्ककेकिकोकैककुः । कः सातकृत् काकुः शब्दविशेषो येषां ते ककाकवः । यद्वा कक लौल्ये, कक्यत एभिरिति काकवः । 'उणादयो' [हे. व्या. ५.२.९३ ] बहुलं इति बहुलवचनादुण। शोकादिविकृतध्वनयः केन कामेन तोयेन वा काक्व;, निदिविशेषा येषां ते, तथा । कङ्कन्ते गच्छन्ति कङ्काः जलपक्षिणः, काकवश्व ते कङ्काश्च । तथा कायत्यनया केकाः, के मूर्ध्नि कायतीति वा । अङ्कलक्ष्मणि अझ्यन्ते अनेनेति अङकः। ततः केका शिखण्डिरवोकः चिहनं येषां ते, केकाकाः, ते च ते केकिनः चित्रपिङ्गलाश्च तथा । कोकाः- कुन्ति शब्दायन्ते कोकाः, 'भीणशलीति कः' [हे. उ. २१ । चक्रवाकाः । ततो द्वन्द्वे ककाकुकड्काश्च केकाककेकिनश्च कोकाश्च तथा, तेषामेकमद्वितोयं कुः उत्पत्तिस्थानं यः सः । पुनः कीदृक् । अकुकौकः काककाक्वः । कवः कुत्सिता न कवो कवः सुन्दराः । कौकसः के ओकः सदनं येषां ते । तथा ते च कौकसः वारिवासिनश्च । काकाः कायन्ति काकाः, 'भीण शलीति कः' [हे. उ, २१] ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org