________________
ज्ञानप्रमोदिकावृत्तिः द्वयोः स्थापना यथा । एकस्वरचित्रं विवक्षुराह
गणनरगणवरकरतरचरण परपद शरणगजनपथकथक ।
अमदन गतमद गजकरयमल शममय जय भयघनवनदहन ॥९॥ ..मः शान्तिः, स्वरूपं यस्य सः तथा, तदामन्त्रणे, हे शममय, हे अर्हन् , त्वं जय सर्वोत्कर्षेण वर्तस्व । प्रभोः आमन्त्रणविशेषणान्याह- हे गणनरगणवरकरतरचरण ! गणः संख्याने, गण्यते एभि; इति गणाः गच्छाः, तदन्तर्वतिनो यतयः । नृणन्ति इति नरा, चक्रवर्तिप्रमुखाः, तेषां गणाः निकराः, तेषां वरं ईप्सितं कुरुत इति वरकरौ । अतिशयेन वरकरी वरकरतरौ, तादृशौ समीहितोत्कृष्टविधायको चरणौ यस्य सः, तदामन्त्रणे । तथा हे परपद-पद्यते अस्मिन् पर्द, परं परमं वा ब्रह्मपदं यस्य, तत्सम्बद्धौ। तथा हे शरणगजनपथकथक-शीयते शोताद्यनेन शरणं आश्रयं गतवन्तः शरणगाः, ते च ते जनाश्च; तथा तेषां पन्थाः शरणगजनपथः, तं कथयतीति शरणगजनपथकथकः, तस्य सन्बोधने' । यद्वा परपदस्य महोदयस्य शरणगाः इत्यादि पूर्ववत् समुदितं विशेषणं मन्तव्यम् । हे अमदन ! नास्ति मदनो यस्य सः, तस्य सम्बुद्धी; तथा निरस्तमकरध्वज । हे गतमद ! गतः मदः यस्य सः, तदामन्प्रणे । परास्तजात्याद्यष्टविधाऽहंकृते ! हे गजकरयमल-गजस्य इव करिणः इव, यद्वा गजकर इव करयमलं बाटुयुगं यस्य सः । एककरशब्देऽत्र मध्यलोपीसमासः, तदामन्त्रणे । तथा शमल इत्येतादृशे पाठे गजकरः शुण्डादण्डः, सः इव शमलः श्यामलवर्ण । हे भवधनवनदहन-भयमैहिक प्रभृति सप्तविधं, तदेव घनं हन्यते घनम् ; मूर्तिनिचिताभ्रे घन इत्यलि साधुः, निबिडं वन, तस्मिन् । दहति दहनः इव अग्निरिव, दहन यस्य सः , तस्य सम्बोधने ॥९।। एकस्वरचित्रम्
मूलस्थितिमधःकुर्वन् पात्रैर्जुष्टो गताक्षरैः ।
विटः सेव्यः कुलीनस्य तिष्ठतः पथिकस्य सः ॥१०॥ विटपदात् इकारमात्राच्युतकं, विटः इति वटः । सः विटः 'विट् आक्रोशस्वने,' वेटति शब्दायते विटः पल्लवकः । तथोक्ताभिवानचिन्तामणी हेमसूरिपादैः- "षिङ्ग पल्लवको विटः' । २२४५] इति । एतादृक्ष. पल्लवक । काय ? कुलीनस्य-कुलस्य अपत्यं, तत्र भवः वा, कुलात् ईन इति कुलोन , तस्य । कस्य महाकुलस्य सेव्यो भवेत् ? अपि तु न कस्याप इत्यर्थ । किंविशिष्टस्य कुलो नस्य ? पथि न्यायवर्त्मनि तिष्ठतः । विटः किंकुर्वन् ? भूल त मूल. तत्र । स्थोयतेऽनया स्थितिः मर्यादा । तां मूलकुलमर्यादामधःकुर्वन् । पुन किलक्षण. १ गतमक्षरं येभ्य. ते गताक्षरा देवानां प्रियाः, ते. पात्रैः जुष्ट: । 'जुषोप्रोतिसेवनयो. इन्यस्य क्ते' जुष्टः सेवितः । अथ प्रच्युतेकारे विट शब्देऽर्थादवशिष्टः विटः विद्यते, सः । ईदृशेऽध्वनि सर्वदा पथिकस्य छायादिसातविधायकत्वविख्यातो वटः सेव्यो भवेत् । यत्तु पन्थान याति पथिकः 'पथ इकटू,' [ हे व्या. ६.४.८८] तस्य पथिकस्येत्वन्वर्थाश्रयणेन व्रजतः पान्थस्य कथं वटः सेव्यः स्यात् , तच्छका पनोदनाथ विशेषण. द्वयं सफलयति । कीदृक्षस्य पथिकस्य ? कुलीनस्य को भुवि लोन कुलीनः तस्य । तदधस्तात् धरण्यापासो नस्य, तथा तिष्ठतः प्रयाणं वितीर्य तस्थुष । कीदृक् ? मूलानां जटानां स्थितिमध कुर्वन् । 7. सम्बुद्धौ-ला.
8. दहनो य: सः -पु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org