________________
चतुर्थः परिच्छेदः
अथ चित्रप्रमुखध्वनिजातिप्रमुखार्थालड्-कारान् प्रारिप्सुराह---
दोषैर्मुक्तं गुणैर्युक्तमपि येनोज्झितं वचः ।
स्त्रीरूपमिव नो भाति तं ब्रुवेऽलङ्क्रियोश्चयम् ॥१॥' अहं तमलठ्ठियोच्चयं अलंकारनिचयं, व्यक्तं अभिदधामि, येनापेतं वचनं न विभाजते । दोषैरनर्थकादिभिः त्यक्तमपि गुणैरौदार्यप्रभृतिकैः उपेतमपि । किमिव ? वनितारूपमिव । यथा' वनितारूपं दोषैः अधोदृष्टतावैवादिभिर्वर्जितं, गुणैः सद्वर्णप्रभृतिभिः सहितमपि कटककेयूरवलयतिलकहाराद्यलङ्कारः अन्तरेण नो भाति । ननु गुणा अपि वृत्तरीढाहेतवः, तत्कथं 'काव्यशोभाकरान मार्गानलकारान्प्रचक्षते' इत्यलङ्कारसामान्यलक्षणं समानासमानजातीयव्यावर्तकं भवेत् ? प्रोच्यते-गुणा हि हारवलयतिलकादिवदलङ्कारतया नालकुर्वन्ति, किन्तु गाम्भीर्ये धैर्यवत्कर्षणमादधते । प्रोदितं च नन्दबहिणसूरिणा(?)
उपकुर्वन्ति ते सत्यं येऽङ्गद्वारेण जातुचित् ।
हारादिवदलकारास्तेऽनुप्रासोपमादयः ॥१॥१॥ [ का. प्र. ८.६७] ध्वन्यालकृतिभेदेन द्विविधानलङ्कारानुद्दिशति -
चित्र वक्रोक्त्यनुप्रासौ यमकं ध्वन्यलक्रियाः ।
अर्थालङ्कृतयो जातिरुपमारूपकं तथा ॥२॥ इमाश्चित्रवक्रोक्त्यादयश्वतखो ध्वन्यलक्रियाः शब्दालङ्काराः, अपराः जात्युपमाप्रभूतिकाः अर्थाः लकृतयो अर्थालङ्काराः निगद्यन्ते ॥२॥
प्रतिवस्तूपमा भ्रान्तिमानाक्षेपोऽथ संशयः । दृष्टान्तव्यतिरेको चापहूनुतिस्तुल्ययोगिता ॥३॥ उत्प्रेक्षार्थान्तरन्यासः समासोक्तिर्विभावना । दीपकातिशयौ हेतुः पर्यायोक्तिः समाहितम् ॥४॥
1. पु. पुस्तके प्रथमाश्चत्वार: कारिकाः दत्तास्तदनन्तरमेव तासां वृत्तिलिखिता । 2. 'वनितारूपमिव । यथा-' इदं पु. पुस्तके मास्ति । 3. मूले तु काव्यप्रकाशे - धर्मान' इति । 4. मूळे 'तं सन्तं' इति । .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org