________________
ज्ञानप्रमोदगणिनिबद्धा यदनेयत्वमर्थस्य साऽर्थव्यक्तिः स्मृता, यथा ।
त्वत्सैन्यरजसा लुप्ते सूर्ये रात्रिरभूदिवा ॥८॥ यदयाभिषे वस्त्र अने पत्वं, न ने यत्वं अनेयत्वं, बलात्कारादर्थाप्राप्यत्वं, तत्तच्छब्दविद्यमानत्वेन स्फुटार्थाक्त्या सुखाम्यत्वं, तदर्थस्याने यत्वम् । अल्पबन्धेनापि तादृशाः शब्दाः प्रयुज्यन्ते, यादृशैः साक्षादों गम्यते । इयता यत्र वर्णनियमतोऽर्थस्य भणनं स्यात् , विद्वद्धिः सा अर्थव्यक्तिः स्मृता कथिता । यथेत्युदाहरणे- हे काश्यपीपते, त्वच्चमूपांश्रुसुिना विवस्वति लुप्ते सती दिवा वासरे, विभावरी आसीत् । इह तम्याहेतुः सूर्यलोपः इत्यादि । हेतुहेतुमद्भावेनार्थस्य सुखलभ्यत्वाद. नेयत्वम् । यद्वा अनेयः सुगमत्वम् । यस्मिन्नभिधेयस्य नेयत्वं तत्र दोषः । यथा
चतुरङ्गे भवत्सैन्ये प्रसय॑ति दिशः क्रमात् । नरेन्द्र, बहलध्वान्ता दिवाऽप्याविरभन्निशा ॥१॥ [
] अत्र निशीथिन्या हेतुः रविलोपः, तद्हेतू रेणू रेणोः सैन्यं वेति प्रभृति हेतूनामभावादर्थस्य तत्साधकस्य रेण्वादेर्नेयत्वं । अयमनेयतायां गुणः ॥८॥
झगित्यर्थापकत्वं यत्प्रसत्तिः सोच्यतै, बुधैः ।।
कल्पद्रुम इवाभाति वाग्छितार्थप्रदो जिनः ॥९॥ सुधीभिः सा प्रसत्तिनिगद्यते । अर्थं करोति, तमाचष्टे वा। अर्थापयतीत्यर्थापकः, तस्य भावः तत्त्वम् । यत्तूर्गमर्थापकत्वं सुतरामर्थबोधकम् । यथा दृष्टान्ते* -- " कल्पद्रुम इव राजते समीहितार्थप्रदायकोऽर्हन् ।” यतः एव कल्पद्रुमप्रभृतिशब्दानां पाठतः एव झटिल्यापावं, अत एव अस्य प्रसत्तिगुणत्वम् ॥९॥५
स समाधिर्यदन्यस्य गुणोऽन्यत्र निवेश्यते ।
यथाऽश्रुभिररिस्त्रीणां राज्ञः पल्लवितं यशः । १०॥ सः समाधिः सम्यगाधीयते समाधिः । 'उपसर्गादातः' [हे. व्या. ५. ३.११० ], किः । षष्ठो गुणः । यत्रान्यस्य अपरस्य पदार्थस्य, गुणः धर्मः, अन्यस्मिन्पदार्थे स्थाप्यते । यथा- शत्रुवनितानामश्रुभिः अश्रुवते आकण्ठमाण, क्लीबॉलङ्गः विनिपीस्यशिल्पोरुरिति रुः । तेः अश्रुभिः बाष्पैः, राजतेsमात्यादभिः इति राजा; 'उक्षितक्षीत्यन् 'हे.उ. ९००] " । तस्य राज्ञः भूपतेः यश ; अश्रुते व्यानी ते दिशः; 'अशेयश्चादिरित्यम् [हे.उ. ९५८] । पल्लवः जातः यत्र तत् पल्लवितमः पल्ल वेतमित्यत्र पल्लवन, वल्लितरुप्रभृतीनां धर्मः, सः यशसि आरोपितः ॥१०॥।॥धृ॥ - श्लेषौजालक्षणगुणद्वितय मेकपद्येनैव स्पष्टयति
श्लेषो यत्र पदानि स्युः स्मृतानीव परस्परम् ।
ओजः समासभूयस्त्वं तद्गद्येष्वतिसुन्दरम् ॥११॥ यत्र यस्मिन्वृत्तादौ, पदानि पार्थक्येन स्थितान्यपि, परस्परं अन्योन्यं, स्यूतानि-सोव्यन्ते स्म स्यूतानि, 'अनुनासिके चछ्वोः शूदित्यूत्वम्' [हे. व्या. ४.१.१०८] । तानीवोतानोव समस्तप्रायिकाणि भवेयुः सः श्लेषो गुणः । यत्समासप्रचुरत्वं जायते स ओजोगुणो मन्तव्यः। तत्समासभूयस्त्वं गद्यरचनास्वतीव शोनावहं भवति ॥११॥ 4. यथा-व. 5. सूत्र तु -उक्षितक्षाक्षी-रन् ॥९० इति । 6. स्वतीवतरां-पा., पू.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org