________________
ज्ञानप्रमोदिकावृत्तिः
समताकान्त्याह्वयगुणद्वयमेकपद्येनैव ब्रूते
बन्धस्य यदवैषभ्य समता सोच्यते बुधैः ।
यदु [ज्ज्व]लत्वं तस्यैव सा कान्तिरुदिता, यथा ॥ ५ ॥
यद् बन्धस्य गुम्फनाप्रकारस्य अवैषम्यं अविषमता, सुकुमारता, अनूनोल्बणाऽखिलाक्षरपदोपादान' स्यात्, प्रेक्षावद्भिः सा समता मता कथिता । यत्तस्यैव बन्धस्यैव उज्ज्वलत्वं वैशद्य, सा कान्तिः लब्धवर्णैः उदिता उक्ता । विरूपसन्ध्यादि' बन्धनिरासात्कान्तिनामा गुणो विवक्ष्यते इत्यर्थः ॥५॥
यथेति समतानिदर्शनं निरूपयति-
कुचकलशबिसारिस्फारलावण्यधारामनुवदति यदङ्गासङ्गिनी हारवल्ली ।
असदृशमहिमानं तामनन्योपमेयां कथय, कथमहं ते चेतसि व्यजयामि ॥६॥ कश्चन सुहृत्कस्याश्चन अनिरीक्षितपूर्वायाः प्रमदायाः निभानाय सखायं प्रेषितवान् । स च तां निरीक्ष्य प्रत्यायातः तेन च पृष्टः " साङ्गना किंलक्षणा ? " इति । ततो वक्ति- "हे सखे, त्वं वद । अहं ते तत्र अन्तःकरणे तां सौन्दर्यविभ्रम संपदातिशयशालिनीं केन प्रकारेण स्पष्टयामि ? " किविशिष्टाम् ? असमानमहिमानं असाधारणमाहात्म्यां; नान्याभिः उपमीयते इत्यनन्योपमेया, तां तथा । यदङ्गा० यस्याः अङ्ग ं यदङ्ग, अवसराद्वक्षः, तस्यासङ्गिनी हारलता । कुचकलशाभ्यां धरणनिपाभ्यां विसारिणी विसरणशीला, स्फारा वरिष्ठा, या "लवणा त्विट्,” हे. व्या. ६.४६. लवणाद् अ] "लवणा विषि" इति वचनात् सेव लावण्यं, तस्य धारा लावण्यधारा, तामनुवदति अनुकरोति । समबन्धत्वात् समृताख्यो गुणः । उक्त च
"
**
बन्धवैषम्य राहित्यं समतापदगुम्फनः ।
२९
इति ॥ ६ ॥
Jain Education International
कान्तेष्टान्तं प्रतिपादयति
फले:
: क्लुप्ताहारः प्रथममपि निर्गत्य सदनादनासक्तः सौख्ये क्वचिदपि पुराजन्मनि कृती | तपस्यन्तः श्रान्तं ननु वनभुवि श्रीफलदलैरखण्डैः खण्डेन्दोविरमकृत पादार्चनमसौ ||७|| कस्यापि इत्यस्येयमोडा । असौ कृतविद्यवत् कृतशब्दाऽभ्यस्तार्थः, तेन कृतं अभ्यस्तं तपः पूजादिपुण्यं, अस्य अस्ति इति कृती, इन् । कृतमभ्यस्तमनेनेति वा कृती, पुण्यवान् । पुराजन्मनि प्राग्जनने, श्रीमदानि फलानि यस्य सः श्रीफलो बिल्वः, तस्य दलानि पत्राणि, तैरखण्डेः, सम्पूर्णैः, खण्डेन्दो ईशानस्य, चिरं प्रभूतकालं, पादार्चनमकृत चरणच व्यधत्त । कथंभूतः ? प्रथते द्वितीयाद्यनेन प्रथमम् । "पृप्रथिपरिचालकर्दिभ्योमः” प्रथममपि शैशवे एव सदनात् - सादन्ति अस्मिन् सदनं भवनं, तस्मात्; निर्गत्य निःसृत्य | फलं: क्लृप्तः रचित आहारः येन सः, तथा । क्वचनापि सौख्ये - सुखमेव सौख्यं, 'भेषजादित्वाद् दयण [हे. व्या. ७.२.१६४ ]; सुखस्य भावो वा तस्मिन् । अनासक्तः - आसजति स्म आसकः न आसक्तः नाभ्युपपन्नः । ननु निश्चितं वनभुवि गहनवसुधायां, अत्रान्तं अखेदं यथा स्यात्तथा । तपस्यन् तपः कुर्वन् । विरुद्धसन्ध्याद्यपनयनेन समुज्ज्वलत्वादयं कान्तिगुणः ||७||
2. सन्धिवन्ध-ला. 3. हरिवल्लि व पा.
For Private & Personal Use Only
www.jainelibrary.org