________________
तृतीयः परिच्छेदः
अथौदार्यादोन दशसंख्याकान् गुणान् व्याचिख्यासुरभिधत्ते
अदोषावपि शब्दार्थों प्रशस्येते न यैर्विना ।
तानिदानीं यथाशक्ति' बमोऽभिव्यक्तये गुणान् ॥१॥ वयं तान् गुणान् यथाशक्ति ब्रमः व्यक्तं वदामः । कस्यै ? अभिव्यक्तये । अभि इति आभिमुख्येन, व्यज्यतेऽनयाऽभिव्यक्तिः, तस्यै प्रकटतायै । यैः गुणैः अन्तरेण निर्दोषावपि शब्दार्थों मेधाविभिः न प्रशस्येते । अभिव्यक्तये इति तादर्थं चतुर्थी । तेन यदि इह दोषाणामपोह एव गुणान् व्यञ्जयति, तथापि कतिपयाः ते, किंसंज्ञकाः, किंलक्षणा इत्यभिव्यक्तिर्न भवेत्, अतो 'भणामः' इति तात्पर्यार्थः ॥१॥
औदार्य समता कान्तिरर्थव्यक्तिः प्रसन्नता ।
समाधिः श्लेष ओजोऽथ माधुर्य सुकुमारता ॥२॥ काव्यस्य अभिधास्यमानस्वरूपाणामौदार्यादीनां गुणानां दशाभिधानानि क्रमेण मन्तव्यानि ॥२॥ अथैषां गुणानां लक्षणोदाहरणे प्रतिपिपादयिषुराह
पदानामर्थचारुत्वप्रत्यायकपदान्तः ।
मीलितानां यदाधानं तदौदार्य स्मृतं, यथा ॥३॥ विवक्षणैः तदौदार्य-उत्कृष्टं आराति इत्युदारः, तस्य भावः, स[तद्] एव वा औदार्य स्मृतम् । यदेताहशानां पदानां आधानं आरोपणं, विधीयते । किंविशिष्टानाम् ? अर्थ० अर्थस्य उदितवस्तुनः, चारुत्वप्रत्यायकानि रमणीयत्वप्रख्यापकानि च तानि पदान्तराणि च तथा। तैर्मीलितानां संयोजितानाम् । यथा इति उदाहियते ॥३॥
गन्धेभविभ्राजितधाम लक्ष्मीलीलाम्बुजच्छत्रमपास्य राज्यम् ।
क्रीडागिरौ रैवतके तपांसि श्रीनेमिनाथोऽत्र चिर चकार ॥४॥ अस्मिन् रैवतकाचले श्रीनेमिनाथः, श्रिया प्रभूतसमवसरणादिरमणीयं विभूत्योपलक्षितः नेमिः श्रीनेमिः, स चासौ नाथश्च तथा । चिरं भूरिकालंः, तपांसि-तप्यन्ते तानि तपांसि, षष्ठाष्टमादीनि चक्रे निर्मिमे । कीदृक्षे रैवतके ? कोडागिरौ-क्रीडया खेलया उपलक्षितः तदही वा गिरिः, स तथा, तस्मिन् । किंकृत्वा ? राज्यमपास्य परित्यज्य । किरूपम् ? गन्धेभविभ्राजितधाम-गन्धप्रधानाः इभाः हस्तिनः, तैः विभ्राजितं शोभितं, धाम सद्म, यस्मिन् तत्तथा । पुनः कथंभूतम् ? लक्ष्मी० छाद्यते अनेन छत्रम् । डितित्रह । 'छदेरिसूमनिति [हे. व्या. ४.२.३३, हस्वः । लक्ष्म्याः लीलया नर्मणा, उपलक्षितं यदम्बुज कमलम् , तदिव छत्रं यस्मिन् तत्तथा । इह नेमि-इभ-अम्बुज-गिरिशब्दानां श्रीगन्ध-लीला-क्रीडापदैः चारुत्वं यथासंख्य प्रख्यापितम् । नेमि-इभ-प्रभृतिशब्दानां अर्थचारुत्वप्रज्ञापकैः श्री-गन्ध-लीलाप्रमुखपदैर्युक्तानां प्रत्ययकारणत्वेन काव्यस्य औदार्यगुणः ॥४॥ 1 यथायुक्ति-ला. 1 वृत्तौ तु 'यथाशक्ति' इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org