________________
ज्ञानप्रमोदिकावृत्तिः
इति दोपविषनिषेकैरकलङ्कितमुज्ज्वलं सदा विबुधैः ।
कविहृदयसागरोत्थितममृतमिवास्वाद्यते काव्यम् ॥२९॥ विबुधैः प्राज्ञैः सदा सर्वदा, काव्यमास्वाद्यते । किमिव ? अमृतमिव । नास्ति मृतमत्रेत्यमृतं, तदिव । यथा-विबुधैः सुरैः, अमृतमास्वाद्यते । किलक्षणं ? काव्यम् । इत्यमुना प्रकारेण, वेविषति देहमिति विषाणि । 'नाम्युपधात्के' [हे. व्या. ५.१.५४-नाम्युपान्त्य...कः ।] निषिच्यतेऽनेनेति निषेको निषेचनं वा । बहुवचने निषेकाः । ततोऽन्वये प्रागुक्ता दोषा एव विषाणि, तेषां निषेका मिश्रीभावा;, तैरकलङ्कितं अभलिनम् । तथा कवीनां हृदयं कविहृदयं, तदेव सागरोऽब्धिः , तस्मादुत्थितं उद्भम् । पुन किंभूतम् ? उचलं -उत् ऊधं चलतोत्युजयलम् । विशदतरत्वात् पीयुषमपि विषानांकितं सागरोत्पन्नं चोज्ज्वलं भवतीति भावः ॥२९॥
इति बृहत्खरतरगच्छे भट्टारकप्रभुश्रीजिनराजसूरिविजयिराज्ये, श्रोसागरचन्द्रसूरिसंतालपट्टानुक्रमसंजात श्रीमद्वाचनाचार्यरत्नधोरगणिप्रवरविनेय वाचनाचार्यज्ञानप्रमोदगणिविनिर्मितायां वाग्भटालङ्कारवृत्तौ द्वितीयः परिच्छेदः ॥
9. बृहत्तर...प्रवरविनेय-इदं पा. पुस्तके नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org