________________
ज्ञानप्रमोदगणिनिषदा
च द्रव्यं च देशकालागमावस्थाद्रव्याणि; तानि आदौ येषां ते तथा । तेषु यथाक्रमं 'विरोधि' शब्दः प्रत्येकमभिसन्बध्यते । तदनु देशविरोधिनः, कालविरोधिनः, आगमविरोधिन अवस्थाविरोधिनः द्रव्य विरोधिनः । आदिशब्दाज्जातिगुणक्रियाप्रभृतयः आदीयन्ते विशिष्टं हेतुमन्तरेण ॥२७॥ देशाद्यखिलोदाहरणाभिधायकं काव्यं विवृणुतेप्रवेशे चैत्रस्य स्फुटकुटजराजीस्मितदिशि
प्रचण्डे मार्तण्डे हिमकणसमानोष्ममहसि । जलक्रीडायातं मरुसरसि बालद्विपकुलं
मदेनान्धं विध्यन्त्यसमशरपतिः प्रशमिनः ॥२८॥ प्रशमिनः प्रकृष्ट शमो येषां ते प्रशमिनः क्षान्तिपरायणाः मुनीश्वराः । असमा विषमाः, ये शरपाताः बाणप्रहाराः, तैः । बालाश्च ते द्विपाश्च बालद्विपः, तेषां कुलं कलभवृन्दम् । 'विध्यन्ति' इति आगमविरुद्ध १ । चन्द्रान्वितया चित्रया युक्ता पूर्णमासी चैत्री, सा अस्यास्तीति चैत्रः, तस्य चैत्रस्य मासस्य प्रवेशनं प्रवेशः, तस्मिन् । प्रवेशेऽन्तर्विगाहने सति । कीदृशे ? कुटजं स्फुटविकसने स्फुटन्ति इति स्फुटाः । नाम्युपधात् के। स्फुटाः विकसिताः, कुटजाहूवाः तरवः, तेषां राजी ततिः, तया स्मिताः ईषद् हसिताः दिशो यत्र स तथा, तस्मिन् । वर्षतौ हि कुटजाः स्फुटीभवन्ति, न वसन्तती इति कालविरुद्धम् २ । पुनः अहर्मणौ प्रचण्डे सति । किविशिष्टे ? हिमकण हिमस्य कणाः लेशाः, तैः सदृक्षं, उष्म तापः, महश्च प्रकाशो यस्य स तथा, तस्मिन् । द्रव्यविरुद्धमिदम् ३ । किलक्षणं द्विपकुलम् ? म्रियन्ते उदन्यौतेषु इति मरवः; 'भृमृश इत्युप्रत्यये' [हे. उ. ७१६] स्त्रियते पिपासुभिः अनुत्रियते सरः, 'असित्यम्,' तेषु । हे. उ. ९५२ ]; सरः मरुसरः, तस्मिन् । मरुस्थलीतडागे सलिलसुखोत्सवार्थ समागतमिति देशविरुद्धम् ४ । पुनः किंविशिष्टम् ? मदेनान्धम् । एतदवस्थाविरुद्धम् ५ । यत्र विशिष्टं कारणं तत्र न दोषः । यथा
तवारिरामाक्षिभवाश्रुशंसं]वरैः महीश्वरोन्मूलितपत्रभङ्गिभिः ।
द्रवीभवत्पङ्कजपङ्किलाः किलाऽभवन् तडागा हि मरुस्थलीष्वपि ॥१॥ [ ] तथा नैषधान्तःस्थं विरुद्धार्थनिबद्ध काव्यं दयते-- ___ अस्य क्षोणिपतेः परायपरया लक्ष्यीकृताः संख्यया
प्रज्ञाचक्षुरवेक्ष्यमाणतिमिरप्रख्याः किलाकीर्तयः । गीयन्ते स्वरमष्टमं कलयता जातेन वन्ध्योदरा
न्मूकानां प्रकरण कूर्मरमणीदुग्धोदधेः रोधसि ॥१[२]॥ [नै. १२.१०६]. इह मूकानां प्रकरस्य ज्ञानमनुचितं, कच्छप्याः क्षीरं न विद्यते, कुत्र तदुदधिः ? कुह च तत्तटम् ? एतेनेत्युदितं यदमुष्य भूपतेरकीतयः वर्तन्त एव, न केचनाऽप्युद्गीयन्ते ॥२८॥
8. तदन्धिः -पु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org