________________
ज्ञानप्रमोदिकावृत्तिः
मिरिति मिः"; कर्मवल्लीवनोच्छेदे । नेमिवत् चक्रधारावत् नेमिः, तस्मै नेमये नमः । कथंभूताय ? अर्हन्ति इन्द्राद्य मिति अहम्, तस्मै अर्हते । 'रूढिोगमपहरतीति न्यायेन अर्हच्छब्दस्य तीर्थकृति. रूढत्वात् 'अर्हति पामरी पूजा' इत्यर्हन इत्यादियौगिकेनातिव्याप्तिः । तथापि 'न्यायाः स्थविरदृष्टिप्रायाः' इति मत्वा 'जिनस्वामिने' इति विशेषणमाह । जिनानां सामान्यकेवलिनां स्वामी, तथा तस्मै जिनार्याय । इह 'स्वामिने' इति पदे प्रागष्टाक्षरात्मकस्यां हः पूर्णत्वात् 'स्वामी'त्यत्र पदान्तर्यतिः, विहितावशिष्टो 'ने' इति वर्गः । पुरःस्थं तुर्यपादमाश्लिष्टवान् च, इत्थं न विधेयम् ॥२५॥
सत्क्रियापदहीनं यत्तदसत्क्रियमुच्यते ।
यथा, “सरस्वती पुष्पैः श्रीखण्डै घुमृणैः स्तवैः" ॥२६॥ यत्काव्यं शुद्धक्रियापदविरहितं भवति, संख्यावद्भिः तदसक्रियं निगद्यते । यथा-सरस्वती-सरः प्रसरणमस्ति अस्याः सा सरस्वती। 'तां सरस्वती' इत्युक्त सरस्वत्यभिधानायां वनितायामतिव्याप्तिः। तदर्थ 'देवी' इति पदम् । एतावता उक्ते इन्द्रमहिष्यादावतिव्याप्तिः । तन्निवृत्त्यै 'सरस्वती' इति पदम् । ततः 'सरस्वती देवीं पुष्पैरभ्यर्चयामि' । श्रिया खण्डयन्ति श्रीखण्डान्, इ[ए]तैः चन्दनः । घुस्यते घृष्यतेऽङ्गमेभिः, धुषन्ते कान्तिं कुर्वन्ति वा; 'घुसृणा निभ्रणतृणे तिणे' निपात्यते । तैः कश्मीरजन्मभिः विलिम्पामि । स्तवै स्तोत्रैः नौमि इत्यादिक्रियाणां अनानयनादसत्क्रियावं; तथा न विद्यते सती मङ्गलार्थक्रिया यस्मिन्नित्यन्वर्थाश्रवणात् मङ्गलार्थक्रियाहीनत्वेऽपि कुत्रचन न दोषः यथा
मा भुजङ्गास्तरङ्गिण्यो मृगेन्द्राः क्रूरदन्तिनः ।
भवन्तं वत्स सम्प्राप्तं पन्थानं, सन्तु ते शिवाः ॥१॥ [ सिंहदेवगणिवृत्तौ २.२६ ] हे वत्स, पन्थानं सम्प्राप्तं भवन्तं त्वां, भुजङ्गाः सर्पाः, मा दाक्षुः इत्यादौ 'मा' शब्दः प्रत्येक क्रियया सम्बध्यते । तरङ्गिण्य; तटिन्यः त्वाऽमानेषुः, मृगेन्द्राः भवन्त मा दाए। क्रूरदन्तिनो मा रौत्सुरिति क्रियाणामसत्वेऽपि दोषाभावः । 'हे वत्स, ते शिवाः कल्याणकारकाः भवन्तु' इति मङ्गलार्थ क्रिया चेत्प्रयुक्ता स्यात् । क्रियागुप्तेषु पुनरसत्क्रियाभासत्वमेव, गुप्तक्रियायाः सत्वात् । यथा
राजन् नवधनश्याम निस्त्रिशाकर्षदुर्जय ।
आकल्पं व पुधामेतां विद्वषोऽय रणे बहून् ॥१॥ (२६) अथ वाक्यार्थदोषान् व्याचष्टे
देशकालागमावस्थाद्रव्यादिषु विरोधिनम् ।
वाक्येष्वर्थं न बध्नीयाद्विशिष्टं कारणं विना ॥२७॥ वाक्यार्थवेत्ता प्रवीण एतादृशान् अर्थान् वाक्येषु न बध्नीयात् । किंरूपान् ? दिश्यते देशः, कलयति क्षपयति सर्वभावान् ; कल्यतेऽसौ इति वा काल । आगम्यते आगमः, अवस्थानं अवस्था दुतुन्य द्रव्यं दोभव्ये इति यतः नतो दन्द्वः । देशश्च, कालश्च, आगमश्च, अवस्था 7. 'लौकिकन्यायाजल्यां' जेकब महादयेरुद्धृतमिदम्, मूलं तु तत्र न दत्तम् । एवमेव 'लौकिकन्यायशास्त्रा
र्थकला'यामपि ।
४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org