________________
२४
ज्ञानप्रमोदगणिनिवा सेमवैति ओक । पररुजेत्यादिना घजि । यद्वा उचेः असुन्न्यक्वादित्वात् कत्वे सान्तः । ओको वेश्म यस्य सः मानसौकाः, स चासौ पतन् विहंगश्च मानसौकः। पतन् राजमरालः, स एव यानं वाहनं यस्य सः । तथा स चासौ देवो हिरण्यगर्भश्च. तस्यासनं सरोरुहं, तत्तल्ये । विशिष्टे लोचने यस्य अनौ । तथा कमलविलोचन इत्येतावता एवार्थसिद्धौ स्तोक एवार्थे शब्देनातिभूयिष्ठस्वमसम्मितम् । अनल्पार्थमल्पाक्षरमपि गुणाय स्यादिति भावः ॥२१॥
अपक्रमं भवेद्यत्र प्रसिद्धक्रमलङ्घनम् ।
यथा भुक्त्वा कृतस्नानो गुरून् देवाँश्च वन्दते ॥२२॥ यत्र वाक्ये प्रसिद्धश्चासौ क्रमश्च तथा, तम्य लङ्घनमतिक्रमणे प्रसिद्धक्रमलङ्घनं विधीयते, प्रेक्षावद्भिः तदपक्रमं भण्यते । यथा-स्नात्वा, सुरानभ्यर्च्य, गुरून् नमस्कृत्य च भोजनं विधेयमिति क्रमः । विपरीतविधाने क्रमलधनं यथा भुक्त्वाऽकृतस्नान, इत्यादि सुगमम् ।।२२।।
छन्दःशास्त्रविरुद्धं यच्छन्दोभ्रष्टं हि तद्यथा ।
स जयति जिनपतिः परब्रह्ममहानिधिः ॥२३॥ यद् वृत्तं छन्द प्रतिपादकं शास्त्रं छन्दःशास्त्रं, वृत्तरत्नाकरप्रभृतिकम, तस्माद्विरुद्धं भवति । हि निश्चितं, छन्दःशास्त्रविशारदै; तत् छन्दोभ्रष्टं अभिधीयते । यथा -स जिनपतिर्जयति । किलक्षणः ? परब्रह्ममहानिधिः-परब्रह्मणः परब्रह्मस्वरूपस्य, महांश्चासौ निधिश्च, स तथा। तृतीयचरणे-'स जति जिनपतिः' इत्यत्र 'पञ्चमं लघु सर्वत्र' [श्रुतबोध-५१] इत्यादिश्लोकस्य लक्षणं नास्ति । तथा पादादौ नगणस्य पातादिदमसङ्गतम् । भणितं च वृत्तरत्नाकरादौ
_ 'वक्तुं नाद्यान्नसौ स्याताम्' इति [२. २१ ] नगणसगणो, यद्वा 'नभौगणौ न पदादौ स्त' इति [ ? ] तताऽवसेयम् ॥२३॥
रीतिभ्रष्टमनिर्वाहो यत्र रीतेर्भवेत, यथा ।
जिनो जयति सः श्रीमानिन्द्राधमरवन्दितः ॥२४॥ प्रारब्धायाः रीतेः यत्र अनिर्वाहः निर्वाहो न स्यात् , तद् रीतिभ्रष्टं सुधीभिः प्रतिपाद्यते । यथा सः .श्रयतीत्येवंशीला श्रीः । दि | इ दि [द्री ?] त्यादिना [हे. व्या. ५. २. ८३ ] क्विपि दीर्घा निपात्यते । श्रीः नित्यमस्मिन्नस्तीति श्रीमान् । नित्ययोगेऽस्त्यर्थे मतुः । जिनो भगवान् जयति । कीदृक्षः? इन्द्रादिसुरस्तुतः जिनो जयति । सः श्रीमानितीह चरणेऽसमस्तपदत्वाद्वैदर्भी रीतिः । पुरः स्थिते 'इन्द्राद्यमरवन्दितः' इत्यस्मिन्पादे भूरिसमासवत्वाद् गौडीया रीतिः । पाञ्चाली यथा
द्वित्रिपदो पाञ्चाली लाटीया पच सप्त वा यावत् । शब्दाः समासवन्तो भवति यथाशक्ति गौडीया ॥१॥ [ रु. का. २ -प्] (२४)
पदान्तविरतिप्रोक्तं यतिभ्रष्टं बुधैर्यथा ।
नमस्तस्मै जिनस्वामिने सदा नेमयेऽर्ह ते ॥२५॥ पदं हि विभक्त्यन्तं, तस्यान्तर्मध्ये विरतिर्यतिः यत्र तत्तथा । यत्पदं पदान्तविरतिर्भवेत्, प्रज्ञावद्भिः तद्यतिभ्रष्टं प्रणी भणि ]तम् । यथा- तस्मै भुवनविरव्याताय, नयत्यन्तं नेमिः, "नीदलिभ्यां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org