________________
ज्ञानप्रमोदिकावृत्तिः क्रमेण वाक्यदोषाणां स्वरूपं निजगदीति
वाक्यान्तरप्रवेशेन विच्छिन्नं खण्डितं मतम् ।
यथा “पातु सदा स्वामी यमिन्द्रः स्तौति वो जिनः" ॥१८॥ वाक्यं वचनं, अन्तरे परवाक्यस्य प्रवेशेन विच्छिन्नं त्रुटितं सत् खण्डितं जायेत । यथा-जिनो जर्यात रागद्वेषमोहानिति जिनः; 'जीणू शीदीबुद्धथविमील्यः किदि' [हे. उ. २६१] ति नः । स्वं अस्य अस्तीति स्वामी, स्वान् मिन्ति ईशे इति मिनि दीर्घश्च । वः युष्मान् पातु । वाक्यमिदं 'इन्द्रो यं जिनं सदा सर्वदा स्तौति' इत्येतेन वाक्यान्तरप्रवेशेन विच्छिन्नत्वात् खण्डितप्रायिकं अनः चोक्तम् । अन्यथाऽलकारचूडामणौ 'क्वचित् गुणोऽपि' इति प्रतिपादनेन यमकपदभूयस्त्वे वाक्यान्तरप्रवेशेऽपि निदोषत्वमिति निर्दोषवचो विरुद्ध येत । अतो यथोक्तव्य ज्यानमेव साधीयः ।।१८।।
सम्बन्धिपददूरत्वे व्यस्तसम्बन्धमुच्यते ।
यथाऽऽद्यः सम्पदा ज्ञाता देयात् तत्त्वानि वोऽर्हताम् ॥१९॥ अर्थात्, परस्परं सम्बन्धोऽस्त्येषां तानि सम्बन्धीनि, सम्बन्धीनि च तानि पदानि च, तथा तेषां दूरत्वम् । तस्मिन् समन्धिपददूरत्वे सति तज्ज्ञैः व्यस्तसम्बन्धवाक्यदूषणं निगद्यते । यथाअर्हतां चतुस्रिशतं अतिशयान् [यां?] सुरेन्द्रादिकृतां पूजां चाहतीति अर्हन्तः । सुग द्विषाह: सत्रि शत्रुस्तुत्यः, इत्यतृश् प्रत्यये, तेषां आदौ युगादौ, भव आद्यः युगादौ । घनजाड्यव्याप्ता. खिलजीवोपकारविधायिनिखिलकलाकलापराज्यनीतिप्रभृतिप्रकाशनोपपन्नादग्मात्प्रसिद्धविशेषणात् वृषभ इति विशेष्यपदं लभ्यते । ततोऽहतामाद्यो वृषभप्रभुः, वः, युष्मभ्यामति । युष्मच्छब्दस्य चतुर्थीबहुवचने, 'युष्मभ्यं' इत्येवंरूपस्य बहुवचनस्य 'वस् तसौ' इत्यनेन वसादेशे, सम्पदं सम्पदनं सम्पत्. तां ऋद्धिं देयात् । किंलक्षणः ? तत्त्वानि ज्ञाता । इह अर्हतामाद्यः तन्वानि ज्ञातेत्यर्हतां सम्बन्धिपदानां दूरीभूतत्वमवसेयम् । यत्र क्वचन यस्य पदस्य सम्बन्धि यत्पदं तत्तत्रैव सम्बद्धयतेऽत्र अर्थतो व्यस्तसम्बन्धं न स्यात् । एकस्मिन्नेव वाक्ये तदूरत्वे सति व्यस्तसम्बन्धं भवेदित्याशय ॥१९॥
शब्दार्थों यत्र न तुलाविधृताविव सम्मितौ ।
तदसम्मतमित्याहुक्ग्रिंवाक्यविदो, यथा ॥२०॥ यत्र प्रबन्धे, शब्दश्च अर्थश्च शब्दार्थो, तुलाविधृताविव सम्मितौ तुल्यौ एव न स्तः । यथातोल्यते तुलाभिदादिवादिङसाधुस्तत्र तुलायां विधृतौ पदार्थों द्वयोः पार्श्वयोः सम्मितौ भवतः, तथा अत्र न शब्दभूयस्त्वेऽर्थाल्पीयस्त्वात् । वाक्यविदो विपश्चितः, तद्वाक्यमसम्मितमित्याचक्षते । यथा इति अभिधास्यमानदृष्टान्तार्थ ॥२०॥
मानसौकः पतद्यानदेवासनविलोचनः ।
_तमोरिपुविपक्षारिप्रियां दिशतु वो जिनः ॥२१॥ यथा-जिनो देवाधिदेवो, वः युष्मभ्यं, तमसः ध्वान्तस्य, रिपुः अराती रविः, तस्य विपक्ष राहुः, तस्यारिः केशवः, तस्य प्रिया; प्रोणाति प्रिया । नाम्युपान्त्यप्रीत्कृ इति कः, [हे व्या ५. १. ५४ ] तां श्रियं दिशतु । कीदृशः ? मानसौक० मानसे मनः एव मानसं, तस्मिन् सरसि; उच् समवाये, उच्यति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org