________________
२२
ज्ञानप्रमोदगणिनिबद्धा तथा अत्रापि धान्यं कलमत्रोह्यादि क्षिपामि । छादयित्वा क्षिपामीति चैतदुभयमप्ययोग्यं . ग्रामीण वाक्सहक्षं विलोक्यते । 'अहं देवानू पूजयित्वा बलिं ढौकयामि' इतीदं वक्तुमर्ह वचनम् । तथा ये केचन शब्दाः होक्षेपाऽमङ्गलपत्ययविधायकास्तेऽपि संमदनह त्वात् ग्राम्या एव । क्षेपवाचको यथा - घात प्रसरीसर्तिवातशब्दोपानमरुच्छ काभिधायी इत्यादयः । भगवतीभगिनीशिवलिङ्गप्रमुखास्तु जन प्रख्यातत्वान्न दुष्टाः । उक्तं च
लोकतत्प्रतिपत्तव्यो लौकिकोऽर्थो बुधैरिह ।
प्रतिलोकव्यवहारं सदृशौ बालपण्डितौ ॥१॥ [ सिंहदेवगणिवृत्तौ २.१५ ] क्वचन एतेषां च वयस्येऽस्मदादासोः, ते तवाह, ससर्वदेतिप्रभृतिस्थले वकारदकारप्रमुखानर्थकादीनामप्यनुकरणार्थत्वान्निदोषता मन्तव्या । युगपदर्थवादजुगुप्सनयोरभिधेययोः व्याहतार्थमपि न दुष्टं
'रतस्त्वमेव भूपाल भूतलोपकृतौ सदा' । _ अत एव यथा स्वैरं तव अपूर्वाश्च कीर्तयः अपूर्वाश्चित्राः कीर्तयः । यद्वा अकारप्रथमाश्च अकीर्तयः इत्यैदम्पर्यम् ॥१५॥
पदात्मकत्वाद्वाक्यस्य तदोषाः सन्ति तत्र हि ।
अपदस्थास्तु ये वाक्यदोषास्तान् ब्रूमहेऽधुना ॥१६॥ तस्य पदस्य दोषास्तदोषाः अनर्थकादिकाः, हि निश्चितं, तत्र वाक्ये सन्ति । कस्मात् ? उच्यते विवक्षितमनेनेति, कृत्ययुटोऽन्यत्रापि चेति ध्यण् । ति सुबन्तसङ्घातसम्बन्धार्थ वाक्यं उच्चैः पठति । तथा चाह भाष्यकारः-- " आख्यातं साव्ययकारकविशेषण वाक्यं, तिङ् ग्रहणं, क्रियाशब्दोपलक्षणम् ।" 'देवदत्तः कटं कृतवान्' इत्याद्यपि वाक्यमेव । तस्य वाक्यस्य पदात्मकत्वात् , पदसमुदायरूपत्वात् सदोषपदाङ्कितं वाक्यमपि सदोषं, निर्दोषपदसंपृक्तं वाक्यं निर्दोषम् । यथा पुराऽभिहिते श्लोके'चतुरो हन्ति वारिधीन्' इतीह ‘हन्ति' दुष्ट क्रियापदेन कृत्स्नमपि वाक्यं दुष्टं जातम् । ये तु दोषाः पदे तिष्ठन्ति इति पदस्थान्, अपदस्थाः पदेषु न विद्यन्ते वाक्ये च वर्तन्ते तान् वाक्यदोषान् अष्टौ । 'वाक्यार्थदोषाः' इति पाठे वाक्यार्थस्य दोषाः वाक्याथदोषाः, तानपि अस्मिन् कालेऽधुना, वयं ब्रूमहे स्फुटं वदामः ।।१६।। ते के दोषा इत्यभिधित्सुराह
खण्डितं व्यस्तसम्बन्धमसम्मितमपक्रमम् ।
छन्दोरीतियतिभ्रष्टं दुष्टं वाक्यमसत्क्रियम् ॥१७॥ एतादृशं वाक्यं दुष्टं सदोषं, भवति--यत् खण्यते खण्डितम् १; व्यस्यते स्न व्यस्त , सम्बन्धन सम्बन्ध , व्यस्तः सम्बन्धो यत्र तद् व्यस्तसन्बन्धम् २: न सम्मितं अमम्मितं, अतुल्यम् ३; कमणं क्रमः, अपगतः कमो यन्मातदपक्रमम् ४; यम्यते उपरम्यतेऽनया यतिः, भ्र शते स्म भ्रष्टम्; ततः छन्दश्च रीतेश्च यतिश्च छन्दोरातियतयः, ताभ्यो भ्रष्टं छन्दोभ्रष्टं ५, रोतिभ्रष्टं ६, यतिभ्रष्टं ७, नास्ति सनी विद्यमाना किया यत्र वाक्ये तदसस्कियं ८ च प्रादुण्यात् ।। [१७ ॥ 6. अ. सूत्र २.१.१ इत्येतस्योपरि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org