________________
ज्ञानप्रमोदिकावृत्तः
यस्य नास्ति प्रसिद्विस्तदप्रसिद्धं विदुर्य था ।
राजेन्द्र ! भवतः कीति: चतुरो हन्ति वारिधीन ॥१३॥ मनीषिणः तदप्रसिद्धं विदुः, यस्य पदस्य यस्मिन्नर्थे प्रसिद्धि[द्धिः] कविरूढिन विद्यते । यथा'हे राजेन्द्र' इत्यत्र "लोपशि पुनर्न सन्धिः” इत्यनेन च आदेशसम्बन्धिनि लोपशिसन्धिनिषेधेऽपि राज्ञामिन्द्रः राजेन्द्र: इत्यादौ नकारलोपश्यपि सन्धिः । न हि नकारः कस्यचिदादेशः तदामन्त्रणे । तथा पृथिवोशक ! भवतः तव, कीर्तिः अभिरूया, चतुर. चतु:संख्याकान, वारिधीन् सागरान, हन्ति गच्छति । इह " हनक हिंसागत्योः" इति धातुपाठेऽधीतसिद्धोऽपि {पा..धा. पा. २.२] गत्यर्थों हन्तिः गत्यर्थेऽप्रतीतत्वात्, कविभिरप्रयुक्तमानत्वाच्च गत्यर्थं न प्रयुज्यत इति भावः ॥१३॥
शक्तमप्यर्थमारव्यातुं यन्न सर्वन सम्मतम् ।
असन्मतं, तमोम्भोजं क्षालयत्यंशवो रवेः ॥१४॥ यत्पदं अर्थ वाच्यमारव्यातुं, शक्तं क्षममपि, सर्वत्र ग्रन्थेषु, न संमतं नोभिमतं, सुधीभिस्तदसम्मत प्रोच्यते । अर्थयक्तिबलादिह 'यथा शब्दोऽध्याहार्यः । यथा रूयते स्तूयते रविः । 'स्वरेभ्यः' [हे. व्या. १.३.३० ] इर् इति इः । तस्य रवेः आदित्यस्य अंशवः, अनुवते द्यामंशषः, 'अशेरान्तोऽन्तश्चेति' उन् , [हे. उ. ७१९] तिच; मयूखाः । तम एवाम्भोज, तत्तथा । ध्वान्तकर्दमं क्षालयन्ति । अम्भसो जायते स्म इति व्युत्पत्यांऽम्भोजं जम्बालं इत्यन्वर्थता विद्यते । तथापि प्रवीणानां अम्भोजरवः कमल एवाभिमतो न प, तत्रैव तस्य रूढत्वात् । प्रपूर्वः स्मृतिविस्मरणार्थे प्रख्यातो न तु प्रकर्षार्थे । तथा चाभाणि नैषधे
नाक्षराणि पठता किमपाठि प्रस्मृतः किमथवा पठितोऽपि । इति नं. ५. १२१] आङ आदिभो, वहातर्विधानार्थे, न तु बहने सम्मतः चित्रावही स्फुरद्विद्या. चित्रकरीत्यर्थः । इत्थ लब्धवर्णाभिमतमेवपदं प्रयोक्तव्यं नान्यदित्यभिप्रायः ॥१४॥
यद्यत्रानुचितं तद्धि तत्र ग्राम्यं स्मृतं, यथा ।
छादयित्वा सुरान्पुष्पैः पुरो धान्यं क्षिपाम्यहम् ।।१५।। यजते यद् 'तनित्यजियजीति उद् । [हे. उ. ८३५] यत्पदं यत्र स्थानेऽनुचितं भणितुमनह भवति, हि निश्चितं, तनोति, तत्तत्र स्थाने कोविदः ग्राम्यं स्मृतम् । यथा इति उदाहियते-अहं सुरान्, सुरत् ऐश्वर्यदोप्त्योः , सुरन्तीति सुराः, 'नाम्युपान्त्येति कः' [हे. व्या. ५. १.५४] सुन्वन्तोति वा । 'रुज्य जि[जी ?]न्ति इत्यादिना किन्, र. सुष्ठु, राजन्ते इति वा । क्वचिदिति डः, तान् सुरान् । पुष्पविकसने-पुष्यन्तीति पुष्पाणि, तैः प्रसूनैः, छादयित्वा । पुरः अग्रे, धान्यं, धन्यते धान्यं, धीयत इति वा, 'धाग्राजीत्यनः', हे उ. ३१९] धान्यत्वे सामान्येऽपीह धान्यमित्युक्ते कलमादिश्वेव संगतं, न तु मुग्दादौ । यथा-नीलोत्पलादिसंगतं उत्पलत्वं, स्वर्गसंगतं देवादि, व्योमसंगतं मेघादि, दिक्संगतं दिग्गजादि, वायुसंगतं वेगादि, धीसंगतं विचारणादि, शब्दसंगतं उदात्तादि, रूपादिसंगतं यशोनिन्दादि, नाट्यसंगतं भूकुंसादि, भोगिसंगत कचुकादि, वारिसंगतं च नौकादि । 5. पा. पुस्तके अधिकगिदम्-'सारस्वत पाणिनीय - व्याकरणादि विरुद्धत्वादेतन्न युक्तियुक्तमिति चिन्तनीयमितिमि ।'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org