________________
ज्ञानप्रमोदगणिनिबदा
निष्ठुराक्षरमत्यन्तं बुधैः श्रुतिकटु स्मृतम् ।
एकाग्रमनसा मन्ये स्रष्ट्रेऽयं निर्मिता, यथा ॥९॥ यत्पदमत्यन्तं, नियते तिष्ठन्तोति निष्ठुराणि, श्वसुरेत्युरे निपात्यते । न क्षरति न चलति आत्मा एभ्य इत्यक्षराणिः, निष्ठुराणि कर्कशानि, अक्षराणि वर्णाः, यत्र तन्निष्ठुराक्षरं परुषाक्षरं स्यात् । बुध्यन्ते बुधाः, तैः तत्पदं श्रुतिकटु कर्णकठोरं भणितम् । यथा निदर्शने- 'अहमेवं मन्ये ।' स्रष्ट्रा ब्रह्मणा, एकानं सावधानं मनो यस्य सः एकाग्रमनाः, तेन तथा सता । एषा काचन सुन्दरी निर्मिता जगदेकस्पृहणीयसौन्दर्यसम्पत्त्यतिशया अत्यद्भुतलावण्यरूपरमणीयत्वात् स्रष्ट्रेति पदमिह श्रुतिकटु मन्तव्यम् ॥९॥
व्याहतार्थ यदिष्टार्थबाधकार्थान्तराश्रयम् ।
रतस्त्वमेव भूपाल भूतलोपकृतौ, यथा ॥१०॥ इष्टार्थः अभिधातुं कामितोऽर्थः, तस्य बाधकं यदर्थान्तरमाश्रयतीति इष्टार्थबाधकार्थान्तराश्रयम्, तत्पदं लब्धवणेः व्याहतार्थ निगयते । यत्पदमीहितार्थ तद्विपरीतमर्थान्तरं च ब्रूते, तव्याहतार्थ मित्याकूतम् । यद्वा प्रकृतार्थमुत्सृज्य यत्पदमितरार्थ लक्षश्यि ] ते, तव्याहतार्थम् । यथा-हे भूपाल, हे काश्यपोपते, भूतलस्य मातलस्य, उपकृतिः उपकारिता, तत्र त्वमेव रतः परायणः इति इष्टार्थः, तस्य बाधकम् । भूतानां प्रागिनी, लोपकृतौ वधकरणे स्वमेव रत इत्यनिष्टमर्थान्तरं आश्रयति भूतलोपकृतिपदम् ॥१०॥
शब्दशास्त्रविरुद्धं यत्तदलक्षणमुच्यते ।
मानिनीमानदलनो यथेन्दुर्विजयत्यसौ ॥११॥ प्रेक्षावद्धिः तत्पदभलक्षणं प्रतिपाद्यते यत्पदं शब्दशास्त्रेण विरुद्ध शब्दशास्त्रविरुद्धं, व्याकरण विरुद्ध भवति । यथेति निदर्शनार्थे । यथा --असो इन्दुः विजयति विशेषेण जयति । कोगिन्दुः ? मानिनी० मानिनीनां मान गर्ने, दलयति विध्वंसयति, इति मानिनीमानदलनः । एतेन कुमुद बान्धवेऽभ्युदिते कन्दन्मिदातिरक्ये ग विह्वलाः प्रमदाः भर्तृषु अहंकृतिमत्योऽपि मानं हरन्तोति सूचितम् । इह 'परावेजेंः' [हे. व्या. ३.३.२८] इति शब्दशास्त्रसूत्रेण 'विजयते' इत्येताक्षे आत्मनेपदे दि] आसादिते, विजयतीति । परस्मैपदविधानं व्याकरणविरुद्वम् ॥११॥
स्वसंकेतप्रक्लप्तार्थ नेयार्थान्तरवाचकम् ।
यथा, विभाति शैलोऽयं पुष्पितैर्वानरध्वजैः ॥१२॥ विपश्चिद्भिः तत् स्वसंकेतप्रक्लुप्तार्थं दूषणं प्रोद्यते । नेयात् प्रतिपाद्यात् , अभिधेयाद्यर्थान्तरं विसदृशोऽर्थः, तस्याभिधायकं यत्पदं भवति । यथा-अयं, शिलानामयं शैलः, शिलाः सन्ति अत्र इति वा । "ज्योत्स्नादित्वादण्" [हे. व्या. ७ २ २४ ] शिषरी पुष्पितैर्वानरध्वजैः अर्जुनवृक्षविराजते । अर्जुनतरुरिह ने यो गम्यः, तस्मादर्थान्तरं अर्जुनाहूवः पाण्डवः, तदभिधायकम् । 'वानरध्वज' इति पदं न त्वर्जुनपादपस्य, यत एवं कविध जत्वं अर्जुनपाण्डवे भ्रमरे द्विरेफरत् , कविसंकेतितमदुष्ट भवति । अत एव स्वसंकेतितमदुष्टं भवति । अत एव स्वसंकेतप्रक्लृप्तार्थमिदं दुष्टमवसे यम् ।।१२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org