________________
ज्ञानप्रमोदिकावृत्तिः
१९ काव्ये दोषत्रैविध्यं पदवाक्यार्थदोष भेदात् । तत्र प्रथमं पदविषयकं दोषाष्टक उद्दिशति
अनर्थकं श्रुतिकटु व्याहतार्थमलक्षणम् । स्वसंकेतप्रक्लुप्तार्थमप्रसिद्धमसम्मतम् ॥६॥ ग्राम्यं यच्च प्रजायेत पदं तन्न प्रयुज्यते ।
क्वचिदिष्टा च विद्वद्भिरेषामप्यपदोषता ॥७॥ (युग्मम्) नास्ति अर्थः प्रयोजनं यस्य तदनर्थकम् १ । श्रूयतेऽनया श्रुति , चादित्वात् क्तिस्तत्र; श्रवणे कटु दु सहं श्रुतिकटु २ । व्याहतो विरुद्धोऽर्थो यस्य तव्याहतार्थम ३ । लक्ष्यतेऽनेनेतिलक्षणं, न विधते लक्षगं शब्दशास्त्रोक्तरूपं यत्र तदलक्षणम् ४ । स्वसंकेतेन स्वाभिप्रायेण, प्रकृतो रचितोऽर्थः यस्य तत् स्वसंकेतप्रक्लुप्तार्थम् ५ । क्वचन नये प्रणीतमपि यन्न तथा प्रसिद्ध तदप्रसिद्धम् ६ । यन्न क वेसनयाभिमतं तद मनं ७ इत्यभिधीयते । ग्रामे भवं ग्राम्य, ग्रामीणलोकवाक्सदृक्षमित्यर्थः ८। यत्पदमनर्थकं प्रादुर्भवेत् बुधैः तत्पदं न प्रयुज्यते, काव्ये हि ताहपदस्यानभ्यर्हितत्वात् । यत्यत्र वक्ष्यमाणसमुच्चयाद्यर्थाभिधायकचशब्दस्य सम्बन्धादयमर्थः । च पुनः, यत्पदं श्रुतिकटु भवति तत्पदं नानीयते । एवामेतः आरभ्य ग्राम्यमित्येतत्पदावधि सर्वत्र सम्बन्धनीयम् । च पुनः, क्वचन अनुवादोपहासादौ विद्वद्भिः पुराणविचक्षणेः एषामनर्थकादीनामप्यदोषता निर्दोषता इष्टा कथिता । यथा
" मुखं चन्द्राश्रयं धत्ते श्वेतश्मश्रुकराकुरैः । अत्र हास्यरसोद्देशे
प्राम्यत्वं गुणतां गतः ॥' १.६-७।। युग्मम् ।। [सिंहदेवगणिवृत्तौ २.७ ] यथो इष्टानर्थकादिदोषस्वरूपं विवक्षुराह
प्रस्तुतेऽनुपयुक्तं यत्तदनर्थकमुच्यते ।
यथा विनायकं वन्दे लम्बोदरमहं हि तु ॥८॥ प्रस्तुतेऽपक्रमभाविते पदसमूहात्मके वाक्ये, यन्नोपयुक्तं अनुपयुक्तं अनुपयोगि गी ? ] भवति, तत्पदमनथक शं दूषण भधीयते । अत्रोदाहियते । यथेति दृष्टान्तोपन्यासे 'अहं विनायकं वन्दे' इत्येतावत्याभहिते अर्थसिद्धौ जातायां लम्बोदरीमति स्वरूपमात्रवाचकाभिधानमनर्थकम् । “हि तु' इति च पादपूरणार्थ गृहोतमपनर्थकम । यत्तु वक्ता आह्लादसाध्वसादिबलात् द्वित्रिः पदं प्रयुक्त, तत्र स्थलेऽ दोषो न स्यात् । यहाह-वक्ता हर्षभयादिभिरा क्षेप्तमना स्तुवन् तथा निन्दन यत्पदमसकृद् ब्रूयात् तत्पुनरुक्त न दोषाय १ । यथा
जय जय बर्बराजष्णो विष्णोरवतार भूपजयसिंह ।
अरिकेशहस्त हस्तव्यावृत्तिदुरवीर भुवनेऽस्मिन् ॥ [ सिंहदेवगणिवृत्तौ २८] इत्येतत्प्रभृतिषु जयजये।तशब्दमन्तरेण हर्षाद्यर्थप्रत्ययो न जायते । हस्तध्वन्यो रहार्थस्य पार्थक्यात् पुनरुक्ताभासत्वमेव । अहिरहिरित्यादौ दरेण पौनरुक्त्यम् । तस्याऽप्यनर्थकेऽन्तर्भावोऽवसेयः । यदूचेऽनर्थ संबद्धसमुदयार्थशून्यं दशहाडिमानि षडपूपादिवाक्यमनर्थकम् ॥८॥ 3. 'दोष'-ला पुस्तके नास्ति । 4. 'ग्राम भवं...त प्रयुज्यते'-इद व. पुस्तके नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org