________________
ज्ञानप्रमोदगणिनिबद्धा
अपभ्रंशस्तु तच्छद्ध तत्तदेशेषु भाषितम् ।
यद्भूतैरुच्यते किंचित्तभौतिकमिति स्मृतम् ॥३॥ तु पुनः, सोऽप्रभ्रंशः स्यात् । यत्तज्जनपदेषु शुद्धं इतरभाषाभिरसंपृक्तं भाषितं भवति । यथानिम्मल तुह मुहचंद जे पहु पेक्खहि पसरसि य० । यदिह सर्वधर व्याख्यातं दर्यते-अपभ्रश्यति अपशब्दो भवति, अपभ्रंशः । अच् शब्दानुशासनेनाव्युत्पादितो योगान्तगा गि ?] न्यादिशब्दोऽपशब्दः, स सर्वः शब्दानुशासनशास्त्रे अपभ्रंश उच्यते । काव्ये तु आभीरादिभाषाऽपभ्रंशः । वचन अत्र असंजातोऽपि रकारः स्यात् । यथा
भ्रारड तुहुं अइप्राण्डियउ दीसह सच्च पढंतु ।
कहिमा कइअह आविसइ अम्हकेरो कन्त ॥ [ ] भूतैः प्रोक्त भौतिकं, भूतैर्यत्किञ्चित्प्रोच्यते, बुधैरेतद्भौतिकं पैशाचिक भणितम । दकारस्येह तकारो यथा-मालुतेवं तेवं नमह । तथा 'हृदय'स्थो यः पत्वमापद्यते, यथा-- ‘हित कम्पेह' इत्यायू ह्यम् ॥३॥ प्रन्थस्योभयप्रकारतामभिधत्ते
छन्दोनिबद्धमच्छन्दमिति तद्बाङ्मयं द्विधा ।
पद्यमाद्यं तदन्यच्च गचं मिश्रं च तवयम् ॥४॥ इत्यमुना प्रकारेग तज्जगत्प्रतोतं, वाचा विकारो वाङ्मयं शास्त्रं द्विधा, द्विप्रकारं भवति । एक छन्दोनिबद्धं मात्रावर्णगणबन्धभेदात् छन्दसा निबद्ध, द्वितीयं अच्छन्दः छन्दोऽपेतं, आदौ भवं आद्य, प्रथमं छन्दोनिबद्ध पद्यं प्रतिपाद्यते, तदन्यत् तस्मादन्यत् छन्दोविरहितम् गद्यं पठचते । च पुनः, तयोद्वयं तवयं छन्दोनिबद्धाऽच्छंदसोर्द्धय' मिश्र भण्यते । उपलभ्यते च गद्यपद्यात्मकं चमकथादिनाटकप्रभृतिक च मिश्रम ॥४॥ वृत्तदोषानपनिनीषुः अह
अदुष्टमेव तत्कीत्यै स्वर्गसोपानपङ्क्तये ।
परिहार्यानतो दोषां स्तानेवादौ प्रचक्ष्महे ॥५॥ तत् काव्य', अदुष्टमेव अपगतदोषमेव, कीत्यै यशसे भवति । किंविशिष्टाय ? स्वर्गसोपानपतयेस्वर्गस्य त्रिविष्ट पस्य, सोपानपङ्कितरिव आरोहणपरम्परेव सोपानपङ्क्तिस्तस्यै । यथा कश्चित्पुमान् सोपानावल्ल्याऽतीवोच्चावासमारोहति, तथा तदभिज्ञः सम्यकवित्वलब्धिस्फूर्तिमत्ताकप्राज्यप्रतापप्रसरणोद्भूतसितकरसितकीर्तिलक्षणारोहणश्रेण्या त्रिदिवसौधमध्यमध्यास्ते, कविकोतेस्तत्रापि व्याप्रियः माणत्वात् । अतो अस्मात्कारणात् , तानेव दोषान् आदौ प्राक् प्रचक्ष्महे वयं ब्रूमहे । कीदृशान् ? परिहार्यान् , परिहर्तुमर्हाः परिहार्याः तान् ॥५॥ 2. परिहार्याः ततो दोषा-पा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org