________________
द्वितीयः परिच्छेदः
अथ वृत्तस्याङ्गतां बिभ्रणिषुः आह
संस्कृतं प्राकृतं तस्यापभ्रंशो भूतभाषितम् ।
इति भाषाचतस्रोऽपि यान्ति काव्यस्य कायताम् ॥१॥ इति चतस्रोऽपि भाषाः, तस्य प्रागुदितस्वरूपस्य काव्यस्य, कायतां शरीरता, यान्ति प्राप्नुवन्ति । इति इति किम् ? संस्क्रियते स्म संस्कृतम् १, प्रकृतेः संस्कृतात् जातं प्राकृतं २, तस्य प्राकृतस्य लक्षणतः अपभ्रष्टः, अपभ्रंशः। अपशब्दः कुस्सायां, असंस्कृतत्वात् , कुत्सितशब्दो वा ३ । भाष्यते स्म भाषितं, भूतैः भाषित भूतभाषितं, पैशाचिकमित्यर्थः ४। रसोल्लासः मागधमित्यादि, यन्मागधभाषालक्षगं, शौरसेनी च प्राकृते, इत्यतो भाषाभूयस्यो न विद्यन्ते, निखिलिनीवृद्भाषा अपि । प्राकृतेऽपि समुच्चये वृत्तस्य स्वलक्षणमाप्नुवन्ति इत्यर्थः ॥१॥
संस्कृतं स्वर्गिणां भाषा शब्दशास्त्रेषु निश्चिता ।
प्राकृतं तज्जतत्तुल्यदेश्यादिकमनेकधा ॥२॥ स्वर्गोऽस्ति एषामिति स्वर्गिणः। देवाः, तेषाम; भाष्यते भाषा, संस्कृतमिति भण्यते । कीदृशी? शब्दशास्त्रेषु व्याकरणेषुः प्रकृतिप्रत्ययद्वारेण अर्थस्य वाचको यः साधुशब्दः सः संस्कृतो भण्यते । तत्स्वरूपत्वेन निश्चिता, सम्यक् व्युत्पत्त्या निर्धारीकृता । प्राकृतमनेकप्रकारं सम्भवति । तज्जेतितज्जं च तत्तुल्यं च देश्यं च तज्जतत्तुल्यदेश्यानि, तानि आदौ यस्य तत्तथा, तस्मात् संस्कृतात् जायते स्म । तज्जं यथा--
सिरिसिद्धराय सच्चं साहसरसिओ ति कित्तणं तुज्झ ।।
कहमन्नहा भण मह पडन्तमयणस्थमक्कमसि ।। हे श्री सिद्धराजजयसिंहदेव, इति तव कीर्तनं सत्यं विद्यते । इति इति किम् ? साहसरसिकः । अन्यथा मम मन. अन्त करण, कथं केन प्रकारेण, आक्रामसि ? किंभूतं मनः ? पतन्ति मदनास्त्राणि कामशरा यत्र तत् , पतन्मदनास्त्रम । तेन संस्कृतेन तुल्यम् तत्तुल्यम्, समसंस्कृतम् । यथा---' परसमयतिमिरतरणिमित्यादि ' स्तुतयः । प्राकृतशब्दाश्चेह अन्यथाभावं नाप्नुवन्ति । देशेषु कर्णाटप्रभृतिषु भवं देश्यम् । यथा सत्ताससंजोयण' शब्दरचेह देश्यः चन्द्रार्थकः, इत्याद्यनेकधा भवति । आदिशब्दात् शौरसेनीमागध्यौ आदीयेते, शौरसेन्याम् । इदानीं' शब्दे इलोपो यथा 'सो दाणि सिराय महाणुभागो' इत्यादि । तत्' शब्दस्य ता ता एहि तथा तस्य दः, 'विगददुहहेदुमोहारिकेदूदयं' इति । मागध्यां यथा रस्य लः, णस्य नः । यथा-'तरुण'स्थले 'तलुन' इति । तथा--
असुलसुलविसलनललायसे विदपदे रुक्षस्थाने लुक्खम् । एतत्प्रभृतिकमपि प्राकृतमवसेयम्
॥२॥
1. ' भाषा शब्दशास्त्रेषु...स्वर्गिणः' -कारिकाभागसहित मिदं व. पुस्तके नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org