________________
ज्ञानप्रमोदिकावृत्तिः व्यवस्थितम् । तथा हे प्रकाशितमहागम! महान् चासौ आगमश्च महागमः, प्रकाशितः महागमः येन सः, तथा तस्य आमन्त्रणे । अविसंवादिद्वादशाङ्गीप्रणेतृत्वात् प्रकटितोरुप्रवचन । तथा, हे भावतत्त्वनिधे, हे दे । भवत्यस्मिन्भावोऽभिप्रायः, तस्य तत्त्वानि भावतत्त्वानि अन्तरङ्गतत्त्वानि ज्ञानादीनि । नियत धीयते निधिः, तेषां निधिरिव निधिर्यस्य तस्य सम्बोधने तथा । छत्रचित्रेऽत्र बवयोरभेदः । एतच्चित्रं छत्रमालेख्य वाचनीयम् ॥२५॥
भवका ननमत्तेभ ! भग्नमायातम प्रभ! ।
विनयावां स्तुवे वीर ! विनतत्रिदशेश्वर ! ॥२६॥ पद्यमप्येतत् क्षेपकम् । छत्रचित्रं टीकान्तरे। सुगमत्वात् अव्याख्यातस्यापि अस्य कश्चन अथों विव्रीयते । हे वीर, विशेषेण ईरयति प्रेरयति कर्माणि इति वीरः, तस्य आमन्त्रणे तथा । हे जातनन्दन, अहं, विनीयते कर्म अनेन इति विनयः, तस्मात् विनयात् , त्वां स्तुवे । परमेश्वरस्य सम्बोधनविशेषणानि ब्रूते । हे भवकाननमत्तेभ-भवः चातुर्वर्गिकः संसारः, कन्यते गम्यतेऽस्मिन् काननम् । चिदनेत्यने निपात्यते कमनित्यमस्मिन्निति, वास एव गहनरूपत्वात् । काननं वनं, भवकाननम् । एति इभः, 'इणः' [हे. व्या. २.१.५१] किदिति भः, मत्तश्चासाविभश्च मत्तेभस्तस्मिन्, मत्तेभ इव मत्तेभो यः स तथा, तस्य आमन्त्रणे । तथा हे भग्नमायातमःप्रभ-मात्यनया माया, 'स्थाछाभासेति' यः,14 ताम्यन्ति अनेन तमः, 'असित्यस् 'हे. उ. ९५२]प्रभाणं प्रभा । ततोऽयमर्थः माया तृतीयकषायात्मिका, तमः मिथ्यात्वविषयतृष्णादिपापं, माया च तमश्च मायातमसी; यद्वा मायैव तमः, विवेकालोकतिरस्कारित्वादन्धकारं, तयोः तस्य वा प्रभा कृष्णत्विट्, ततश्च भग्ना मायातमःप्रभा येन यस्माद्वा तथा । तस्य सम्बोधने - हे भग्नमायातमःप्रभ । अथवा-भग्नं मायातमो येन सः, भग्नमायातमाः, तस्य सम्बोधने-हे भग्नमायातमः । समवसृतिसमागत त्रिदशदनुजमनुजतिर्यग्जं तु हद्ववर्तितमसः सदुपदेशांशुभिः तिरस्करणात् । निरस्तशाठ्यध्वान्तप्रकर्षण भाति । क्वचित् इति उ प्रत्यये प्रभः, तस्य आमन्त्रणे हे प्रभ, विश्वत्रयस्पृहणीयाद्भुतरूपकान्ते । भग्नमायातमाः चासौ प्रभश्च स तथा, तदामन्त्रणे इति वा । हे विनतत्रिदशेश्वर, विशेषेण नता: नम्रीभूता त्रिदशेश्वराः देवेन्द्राः यस्य स तथा, तस्य सम्बोधने तथा ॥२६॥
अधीत्य शास्त्राण्यभियोगयोगादभ्यासवश्यार्थपदप्रपञ्चः ।
तं तं विदित्वा समयं कवीनां मनःप्रसत्तौ कवितां विदध्यात् ॥२७॥ कविः क वतां-कवेः कर्म कविता, तां कवितां कुर्यात् । इह अभिधास्यमानाभ्यासवश्यार्थपदप्रपञ्चः इत्यस्मात् प्रसिद्धविशेषणात् कविः इति विशेष्यपदं लभ्यते, 'विशेषणमात्रप्रयोगे सागराम्बरादि. वत्तावतैव विशेष्यप्रतीतेः' इत्याह वामनः । किं च विशेषणप्रयोगो विशेष्यप्रतिपत्तौ हेतुरिति, कर्मक्रियान्वयसामर्थ्याद्वा । किंकृत्वा ? अभियोगः उद्यमः, तस्य योगः तस्मात् , शिष्यते शिष्येभ्यः स्तत्त्वं प्रतिपाद्यते एभि इति । शास्त्राणि शब्दालङ्कारशास्त्रादीनि । अध्ययन पूर्वमधीत्य पठित्वा ।
14. मूले तु- 'स्था-ईश-भास-पिस-कस: वरः' (हे. व्या. पू. २.८१) 15. विशेषणमात्र प्रयोगो विशेष्यप्रतिपत्तौ [पू. १.१०]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org