SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ज्ञानप्रमोदगणिनिबद्धा राशिः, तं स्तोतुं ईडितुम् । कि लक्षणं माम् ? जडः आत्मा स्वरूपं यस्य सः जडात्मकः, तं, जाल्म स्वभावम्-केवकम् । लिख्यतेऽनया लेखा, इन्दोः चन्द्रस्य लेखा इन्दुलेखा चन्द्रिका, सा इव । सगरपुत्राणामयं, ते खातत्वात् सागरः, तं सागरम् । यथा इन्दुलेखा रत्नाकरमुत्कण्ठयति, कण्ठात् उच्छ्रित निर्भिमोते। कीदृशं सागरम् ? जलात्मक जलमयम् ॥२३॥ चन्द्रेडितं चटुलितस्वरधीतसाररत्नासनं रभसकल्पितशोकजातम् । पश्यामि पापतिमिरक्षयकारकायमल्पेतरामलतपःकचलोपलोचम् ॥२४॥ हारबन्धचित्रम् । अहं वीरं पश्यामीत्यन्वयः । कथंभूतं वोरम् ? चन्देडितं चन्द्रण ग्रहगणोरुनायकेन, ईडतो वर्णितः, तम् । पुनः कीदृशम् ? चटुलितेति० - स्वरति इति स्वः अन्येभ्योऽपि दृश्यत इति स्वरतेर्विचस्वरव्ययं, तेन । स्वः त्रिविष्टपं, तद्वासिसुरजनेनाधीतं भणितं, सारं बलं यस्य सः स्वरधीतसारः इन्द्रः । रत्नेन मण्डितमासनं रत्नासनम् तस्य रत्नासन तथा । चटुलितम[मा]न्दोलितं स्वरधीतसाररत्नासन येन स तथा, तम् । देवाधिदेवस्य कल्याणकेषु शक्रप्रभृतीनां पीठानि तरलितानि भवन्ति । यद्वा स्वः नाके, अधीतः प्रतीततया पठितः, मन्दराद्रिः तस्य सारम् । पाण्डुकम्बलशिलास्थं मणिमयासनम् । चटुलितं प्रेखितं, स्वरधीतसारस्य स्वर्णाद्रः सारं रत्नासनं येन स तथा तम् । ज्ञातनन्दनेन सुरगिरेः प्रेखोलनादासनमपि प्रेखोलिमिति भावः । पुनः कीदृशम् ? रभसकल्पितेति रभसेन रंहसा, कल्पितं खण्डितं, शोकजातं दुःखवृन्दं येन सः, तथा तम् । पुनः किमूतं ? पापेत्यादि-पान्त्येभ्यः पापानि, 'तिमूतामचिक्ले दे', [शा. व्या ३.४.१५ अचि ?तियन्ति इति तिमिराणि, 'तिमिरुची'त्यादिना तिमेः किरः, ततः पापान्येव तिमिराणि दुरिततमांसि, तेषां क्षयः, तं करोति इति पापतिमिरक्षयकारः । चीयतेऽसौ कायः, चिति देहे तिघञ् त्वं च, तदनु पापतिमिरक्षयकारः कायो यस्य स तथा, तम् । पुनः कथं भूतम ? अल्पेतराणि भूयासि, अमलानि विमलानि, तपांसि यस्य सः, तथा । कचन्ते कचाः चिकुराः, तेषां लोपः नाशः, तेन लोचनं लोचोऽदर्शनं यस्य स., तथा । अल्पेतरामलतपाश्चासौ कचलोपलोचश्च, स तथा, तम् । यद्वा अल्पेतरामलतपसे केशोद्धरणलोचो यस्य सः तथा, तम् । अथ वैनस्तमिश्रस्र ? ]क्षयकारकस्य, अर्थतोऽर्हतः कायोमूर्तिलागः, तं पश्यामि इति सम्बन्धः । इह चन्द्रेडितचटुलतपदद्वये डलयोरैक्यम् । हारबन्धचित्रस्य स्थापना ॥२४॥ प्रचण्डबल! निष्काम ! प्रकाशितमहागम ! । भावतत्त्वनिधे ! देव ! भालमत्राद्भुतं तव ॥२५॥ छन्नचित्रम् । हे देव, अत्र विष्टपत्रयेऽपि तव भा द्युतिः, अलं अत्यथ, अद्भुता विस्मयविधायिनी अस्ति । पाठान्तरे भालं अलिकं अद्भुतं वर्तते । इह कर्तृपदान्वयानुरोधेनानुनुदितमप्यस्ति इत्यादि क्रियापदं लभ्यते । तत उक्तम्, देवाधिदेवस्यामन्त्रणविशेषणान्याह - हे प्रचण्डबल, प्रकर्षेण चण्ड तोत्र बलं यस्य सः प्रचण्डबलः, तस्य सम्बोधने तथा । परानाकलनोयानन्त सामथ्र्यो पेतत्वात् प्रतीक्ष्णपराक्रमः । तथा, हे निष्काम, निर्गत: कामात् मन्मथात् निष्कामः, तस्य आमन्त्रणे । तथा " निदुबहिराविःप्रादुश्चतुरा" [ हे. व्या. २.३.९] इत्येतेन कातन्त्रविस्तर सूत्रेण निरोरः षत्वसिद्धौ सत्यामपि बाहुलकादिह चित्रकृते पत्वं न निरमायि । एतेन निष्कामपदान्तःस्थो विसर्ग एवेति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001591
Book TitleGyanpramodika
Original Sutra AuthorGyanpramod Gani
AuthorR S Betai, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy