________________
ज्ञानप्रमोदिकावृत्तिः इति भङ्गः । धनि भङ्गोऽनेकार्थः, तस्मै विधाताय सम्मतौ उचितौ न भवतः । उदितं च
बवयोडेलयोश्चैव सशयोरलयोस्तथा ।
अभेदमिव वा-छन्ति येऽलङ्कारविदो जनाः ॥१॥ (२०)15 यथाक्रममुदाहियन्ते
शङ्कमानैर्महीपाल कारागारविडम्बनम् ।
त्वद्वैरिभिः सपत्नीकैः श्रितं बहु विडम्बनम् ॥२१॥ हे महीपाल, हे काश्यपीपते; त्वरिभिः त्वदरातिभिः । वन्यते इति वन', 'वर्षादित्वादल' [ शा. व्या वर्षादश्च ३.२.१०७ १ ], काननं; श्रितं सेवितम् । किं विदधान: ? तव कारा चासा. वगारं कारागारं, तत्र । विडम्बनं गुप्तिवेश्मकदर्थनम् । शङ्कन्ते इति शङ्कमानाः, तैः शङ्कमानैः विचिन्तयद्भिः । पुनः किं लक्षणैः ? सह पत्नीभिः स्त्रीभिर्वर्तन्ते इति सपत्नीकाः, तैः सपत्नीकैः । कथंभूतं वनम? बहुबिल बहूनि बिलानि नागकोलकप्रभूतिविहितविवराणि यत्र तद् बहुबिलम् । इह यमकालकारे विडम्बन बहुबिल वन इति बवयोर्डलयोरभेदः ॥२१॥
त्वया दयाण विभो ! रिपूणां न केवलं संयमिता न बालाः ।
तत्कामिनी भिश्च वियोगिनीभिः मुहुर्महीपातविधूसराङ्गाः ॥२२॥ विभवति शत्रून् (उ]न्मूलने समथों भवति विभुः । शंसन् स्वयं विप्राद्भुवोडुरिति दुः, तस्य सम्बोधने, हे विभो, हे नायक । 'इति रिपवः कस्यर्तिभ्यामिति पुक् [हे. व्या. ४.२.२१ ] । तेषां रिपूां, बलन्ति प्राणन्ति स्तन्येन बालाः, ज्वालादित्याणः डिम्भा योषितो वा । अद्यत इति आर्द्रः, चिजीतिरे दीर्घत्व च । दयया आर्द्रः दयाद्रः, तेन । केवलं त्वया द्रयाण सता, न संयमिताः न बद्धाः इति न, किन्तु तत्कामिनीभिः- तेषां शत्रणां कामिन्यः, ताभिः, भत वियोनीभिः । पल संवरणे, वल्यन्ते संक्रियन्ते एभिरिति कर्मणि घनि बालाः केशाः, न संयमिताः न बद्धाः । कीदृशाः बालाः, वनिताः केशाः च ? मुहुर्मही० धुनाति चेतः धूसरम् 'कृधूतनीतिकित्' हे. उ. ४४०] सरः । विशेषेण धूसरं ईषत्पाण्डुविधूसर, मुहुः वारंवारम् , मह्यां पातेन विधूसरं, अङ्ग शरीरं येषां यासां वा ते, ताः तथा । इह श्लेषालंकृतौ बालबालशब्दयोर्वबयोरैक्यम् ॥२२॥ श्लेष एव डलयोरभेदत्वं प्रतिपादयति
देव, युष्मद्यशोराशि स्तोतुमेनं जडात्मकम् ।
उत्कण्ठयति मां भक्तिरिन्दुलेखेव सागरम् ॥२३॥ हे देव त्वदीय[ या ] भक्ति. परिचर्या, एनं मां बाहुल्येन प्रोतस्मरणं उत्कण्ठा, तां करोति इति उत्कण्ठयति, उत्सुकोयति । किं कर्तुम् ? यशसां राशिः यशोराशि , युष्माकं यशोराशिः युष्मद्यशो. 13. सारस्वतव्याकरणे १.१८ प्रायः समाना, अत: नेपा मूलग्रन्थस्य कारिका, यथा प्राप्यते पा. मध्ये ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org