________________
ज्ञानप्रमोदगणिनिबद्धा वारणं शुभ्रमिन्द्रस्य चतुरः सप्त चाम्बुधीन् ।
चतस्रः कीर्तयेद्वाष्टौ दश वा ककुभः क्वचित् ॥१९॥ यद्यपि ईभाना हस्तीनां प्रायः श्यामो वर्णः, तथापि लब्धवर्णः; इन्दति इन्द्रः, "भीवृधीति रः"; [हे. उ.३८७] तस्य इन्द्रस्य बिडोजसः वारयत्यरीन वारणः, तं वारण ऐरावणद्विपं; शोभते शुभ्रः, 'शुज्यजोतिकित् रः' [हे. उ. ४६३ ]; शुभ्रधवलं, कीर्तयेत् वर्णयेत् । सूर्याश्वादीनां नीलप्रभृतिको वर्णः स्वयं मन्तव्यः । तथा-अम्बू निधीयन्ते एषु अम्बुधयः तान् , पूर्वाब्धादिभेदात् चतुरः समुद्रान् । वा अथवा, सप्त-लवण १, क्षीर २, दधि ३, आज्य ४, सुरा ५, इक्षु ६, स्वादुवारि ७ सागरलक्षणान् लोकव्याख्यातान् कीर्तयेत् । तथा चतस्रः- चतेग याचने, चत्यत आभिरिति चतस्त्र । "चतेरूर" इत्युणादिसूत्रेण [हे. उ. ९४८] उर् प्रत्यये 'चतुर' शब्दसिद्धौ स्त्रियां द्वितीया बहुवचने, ताः चतुःसंख्याकाः । कं वायु, कुनन्ति विस्तारयन्ति ककुभः । ककुत्रिष्टुभनुष्टुम् इति क्विबन्तानि पात्यन्ते, ताः ककुभो दिशः । पूर्वाद्याशाभेदात् कीर्तयेत् । वाऽथवा अष्टो, प्रदिक्चतुष्टयमेलनात् । क्वचिद् ऊर्ध्वाधोदिक्क्षेपाद् दश वा वर्णयेत् । इहानुदितोऽपि कविसमयो यथा-मन्मथो मूर्तोऽमूर्तश्च कीयते, क्षीराब्धिरेक एव; सुरभौ न मालत्याः विकाशो[सः]; वनितानां कटाक्षः सितोऽसितो सितासितो वा । सितो यथा धनजयस्य
उज्जभ्भाननमुल्लसत्कुचतटं लोभभ्रमद्भूतलम् स्वेदाम्भः स्नपिताङ्गयष्टिविगलदु ब्रीडं सरोमाञ्चया । धन्यः कोऽपि युवा स यस्य वदने व्यापारिताः साम्प्रतम्
मुग्धे ! दुग्धमहाब्धिफेनपटलप्रख्याः कटाक्षच्छटाः ॥१॥ [ अ. श. ? ] असितो यथागतः कालो यत्र प्रणयिनि मयि प्रेमकुटिलः कटाक्षः काल(लि)न्दोलघुलहरिवृत्तिः प्रभवति ।। इदानीमस्माकं जठर [जरठ)कमठीपृष्ठकठिना मनोवृत्तिस्तत्कि व्यसनिनि मुधैव क्षपयसि ॥२॥ सितासितो यथा-[
अदृश्यन्त पुरस्तेन येषां खञ्जनपङ्क्तयः ।
अस्मर्थन्त विनिःश्वस्य प्रियानयनविभ्रमाः॥३॥ ॥१९॥ [ रामचरित १.१९] पुनः शिक्षामभिधत्ते
यमकश्लेषचित्रेषु बवयोर्डलयोन भित् ।।
नानुस्वारविसगौ तु चित्रभङ्गाय सम्मतौ ॥२०॥ यच्छति यम तदेव यमक, श्लेषणं श्लेषः । चीयते चित्रं, 'चिमिदी'ति [ हे. उ. ४५४ ] त्र'; चित्रयति वैचित्र्य सम्पादयति इति वा चित्रम् । ततो द्वन्द्वः-यमक च श्लेषश्च चित्र च तानि, तथा तेषु यमक लेषचिगेषु अलकारेषु । बवयोः बकारवकारयोः, डलयोः डकारलकारयोः, न भित् न भेदो भवति । तथा, अनुस्वर्यते मुखनासिकाभ्यामुच्चार्यते इत्यनुस्वारः । घधि अनुस्वारणं वा [हे. व्या. ३.२ ८६] । विसृज्यते विरम्यते विरतिरूपोऽर्थोऽनेन इति विसर्गः । ततो द्वन्द्वःअनुस्वारश्च विसर्गश्च अनुस्वारविसगौं । चित्रस्य हारछत्रबन्धादिलक्षणस्य, भङ्गाय स्वयमेव लक्ष्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org