________________
ज्ञानप्रमोदिकावृत्तिः अर्धस्य पूर्वापरार्धलक्षणस्यान्तः पर्यन्तः; नार्धान्तो अनर्धान्तः, पद्यते पादस्तुरीयकोंऽशः, तस्यान्तः पादान्तः, अनर्धान्तश्चासौ पादान्तश्च, स तथा तस्मिन् । यत्तावत् द्वितीयतुर्यचरणरूपार्धान्तपादे सर्वच्छन्दसु लघोर्गुरुत्व, तदा आस्ताम् । प्रथमतृतीयाहिलक्षणानर्धान्तपादान्तेऽपि लघुर्वर्णो गुरुर्भवतीत्याशयः । यथा
सम्पन्न सिद्धिपुरसङ्गममङ्गलाय मायोरुबारिरुहिणीवरकुजराय ।
वीराय ते चरमकेवलिपुङ्गवाय कामं नमो समदयादभिसत्तमाय ॥ [ ] इत्यादिष्वक्सेयम् । तथा - "तौः पादस्य चरणस्यादौ प्रायशो बाहुल्येन चादयोऽव्ययलक्षणा न प्रयोक्तव्याः ।" यथा च
"स्तौमि नाभेयमिहाजितं जिनम्" इत्यादि । प्रायश इत्युपादानात् हे, अरेरे, हन्त, हाहो, अहो, आः, इव, हो, कि न, धिक् प्रभृतीनां न दुष्टता । यथा--
'अहो योगस्य माहात्म्यम', इति योगशास्त्रे [हे.यो.शा.१. १०] 'अरे, त्वं साध्वसं मा गाः ।' "किं किं सिंहः १ ततः किम् ?' 'नरसदृशवपुः देव चित्रं गृहीतो नैतादृक् क्वापि ' इत्यादि । ‘धिगेतौ ग्रामगामिनौ ।' 'रे मातङ्गीपते, नूनम् ।' 'आः' सविसर्गः कोपे पीडायां च । 'आः किमेतदिहोच्यते ।' 'दुर्लभं प्राप्य मानुष्यं हा मुधा हारितं मया ।' 'हे देव, किंकरमिमं परिभावयेह ।'
'न पादादौ खल्वादयः' [का.सू वृ -५.९.५] इति वामनीयनिषेधेऽपि इव शब्दस्य पादादौ प्रयोगः, कवेः औदम्यात् । माघसप्तम स्थलयेत्यादिद्वाषष्टि[ष्ठि]तमवृत्तपादादौ इव प्रयोगः, इत्यादि स्वयमभ्यूह्यम् ॥१७॥ विचक्षणसमयशिक्षा प्रकटयिषुराह
भुवनानि निबध्नीयात् त्रीणि सप्त चतुर्दश ।
अप्यदृश्यां सितां कीर्तिमकीर्ति च ततोऽन्यथा ॥१८॥ कविर्भवति सर्वमेषु । भुवनानि 'सूधूभू' [हे.उ. २७४] इति किदनः। विष्टपानि त्रीणि स्वर्गमर्त्यपाताललक्षणानि निबध्नीयात् प्रश्नीयात् । यथा सप्त-तल १, वितल २, रसातल ३, सुतल ४, नितल ५, तलातल ६, पाताल ७ रूपाणि । चतुर्दश च प्रागुदितसप्तकान्वितमूलोक ८, भुवोलोक ९, स्वोंक १०, अहलो क ११, जनलोक १२, तपोलोक १३, सत्यलोक १४ आत्मकानि । मतान्तरे चैकविंशतिर्मुवनानि वेत्यध्याहारः । तथा अदृश्यामपि अमूर्तामपि; कीयंते कीर्तिः, सा अतिहेतियूतिभूतिज्ञप्तिकोर्तीति साधुः, तां कीर्तिम् । सिनोति मन एषो सितो, तोमवदातां निबधनी. यात् । च युन, अदृश् यामप्यकीर्तिम्, ततो धवलकीतः, अन्यथा नैवंविधां श्यामा प्रथ्नीयात् ॥१८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org