________________
१०
ज्ञानप्रमोदगणिनिबद्धा
उपलक्षणाच्च निराकृतोऽपि "तत्पुरुषबहुव्रीही” इति इह न विरुद्धचेत, एतस्य शिक्षाग्रन्थत्वात् ।। १५ ।। पुनः शिक्षान्तरं प्रतिपादयति
एकस्यैवाभिधेयस्य समासं व्यासमेव च ।
अभ्यस्येत्कर्तुमाधानं निःशेषालक्रियासु च ॥१६॥
एकस्यैव वर्ण्यमानस्याभिधेयस्य अर्थस्य समसनं समासः संग्रहः तं; व्यस्यते व्यासः प्रपञ्चः, तमेव च कर्तुं निर्मातु, शिक्षयेत् । च पुनः निःशेषाः समस्ताः, अलक्रियते याभिस्ताः अलङ्क्रियाः । 'कृञः श च' इति [जै. व्या. २.३.८२ ] 1० करणे शप्रत्यये रिङ् रायग्लिङ्- क्ष्विति रिङ्गादेशे इयडू · टापौ । तथा तासु निखिलोपमाद्यलडू कृतिषु एकस्यैव वाच्यस्य वर्ण्यवस्तुनः आधानं आरोपण, निर्मातु शिक्षयेत् इति भावः । बृहदर्थस्य संक्षेपेण यथा
ढक्काध्वानप्रतिध्वानमुखरास्त्वद्रिपून् भयात् ।
लीयमानान्निकुञ्जेषु वारयन्तीव पर्वताः || १ || [ सिंहदेवगणवृत्तौ १. १६ ] । यद्वा-
ज्योत्स्नागङ्गा परं ब्रह्म दुग्धधारासुधाम्भुधिः ।
हारश्चापि न रोचते रोचते यदि ते यशः ॥ २॥ [ सिंहदेवगणिवृत्तौ १-१६ ] एतस्यैवार्थस्य व्यासेन यथा
यात्रारम्भयान कानकशतध्वानप्रतिध्वानिनः
स्वस्योच्छेद पराभवागमममी संभाव्य शंकाकुलाः । त्रासावेश्वशाद्विशन्तमधुना त्वद्वैरिराज
दूरादेव निराकरिष्णव इव स्वामिन्विभ्रान्त्यद्रयः ।। ( २ ) ३ || [ सिंहदेवगणवृत्तौ १.१६ ] तथा सकलालङ्कृतिषु अर्थारोपणविषये शिक्षा यथा - ' वदनमेतस्या; सुन्दरं इतीयत्तावच्छिन्नपरिमाणोऽर्थः ' आननाम्बुजं मनोज्ञं' इति रूपके आरोप्यते; 'पद्मवदनाया; वक्त्रेऽस्याः मधुव्रतराजी नलिनबुद्धया निपतति' इति भ्रान्तिमदलङ्कृतिः । 'विदग्धनितम्बिनीवदनेन्दौ निष्पादितेऽपि हिरण्यगर्भेणेन्दुः किं घटितः' इत्याक्षेपः, 'सुरूपप्रमदाया आननं कमलं वेति' संशीत्यलक्रियायाम्, 'इदमेतस्याः वदनं न किन्तु नलिनं' इत्यपह्नुतौ; 'अनाभरणसुभगमङ्गनाया. मुखं' इति [वि]भावनायां; 'रूपवद्वामायाः अस्या आननकलाभृदर्चिभिः निरस्ते विलासवेश्मध्वान्तपटलेन विचिन्तयति गृहमणि परिजन' इत्यतिशये, इत्थमपरास्वप्यलक्रियासु तस्मिनेवैकाभिधेयेऽभ्यासो विधेयः ||१६||
कवित्वनिर्मातुर्विशेषं प्रख्यापयति
स्यादनधन्तपादान्तेऽप्यशैथिल्ये लघुर्गुरुः ।
पादादौ न च वक्तव्याश्वादयः प्रायशो बुधैः ॥१७॥
लंध्यते लघुः, 'रयिलधीत्युर्नलुक् च लघुरपि'; [हे. उ. ७४०] 11; गिरति गुरुः ‘कृपया तवति उः गुरुर्भवेत् । [हे. उ ४४१] 18 कुत्र सति ? बन्धस्याशैथिल्ये स्थैर्ये सति । क्व ? अनर्घान्तपादान्तेऽपि
Jain Education International
10 पा. अ. ३, ३.१०० जसः, ला. ' कृष्णः वा शव' म. कृ. ५.८५ 11. भूले तुं – 'रङ्घि लङ्घि लिइ गर्न कूच इति ।
12. मूले तु वृग - बरटू' इति ।
For Private & Personal Use Only
www.jainelibrary.org