________________
ज्ञानप्रमोदिकावृत्तिः अपरं च बुधेनोक्तम् ‘शतचन्द्र नभःस्थलं' इति श्रुत्वाजन्मस्नात्रे जिनेशस्य मेरौ देवाङ्गनामुखः । परितः स्फुरितैः शके शतचन्द्रं नभःस्थलम् ॥३॥ [ काव्यक. ४.७ ] स्वयमिदं काश्यपीकान्तेनाहित्रयं वितीर्ण 'कुमारसम्भव' सत्कपृथक् सर्गसम्बद्धंचकार मेना विरहातुराङ्गी प्रवालशय्याशयनं शरोरम् । हिमालयो नाम नगाधिराजः तव प्रतापज्ज्वलनाज्जगाल ॥४॥ [ कुमार.] इत्याद्यवसेयम् ॥१३॥ निखिलवृत्तबीजार्थोत्पादनाय सामग्री प्रतिपादयति
मनःप्रसत्तिः, प्रतिभा, प्रातःकालोऽभियोगिता ।
अनेकशास्त्रदर्शित्वमित्यर्था लोकहेतवः ॥१४॥ एतेऽर्था लोकस्यार्थप्रकाशहेतवो भवन्ति । समस्ताधिव्यपगमान्मनसोऽन्तःकरणस्य प्रसत्तिः शान्तिः, प्रतिभा अमलमेधा, प्रातःकालः प्रभातसमयः, तस्योपलक्षणत्वादपररात्रिसमयो मन्तव्यः । तत्र हि अल्पधियोऽपि बुद्धिः प्रसरीसर्ति । अभियोगिता उद्यमवत्ता; अनेकानि च तानि शास्त्राणि च तथा तानि पश्यन्तीत्येवंशीलोऽनेकशास्त्रदर्शी, तस्य भावः; तत्त्व विविधग्रन्थालोकनशीलत्वं च विलोक्यते । इहानभिहितस्यापि समुच्चयार्थकचशब्दस्य लाभाद्यथा
अहरहनीयमानो गामश्वं पुरुषं पशुम् । वैषस्वतो न तृप्येत सुराया इव दुर्मदः ॥१॥ [
अथ च
वर्ण्यवस्तुपरीवार' दृष्ट्वा बध्नन्विशेषणः ।
वाक्यैर्वासुशि]कविर्भूयादुर्धरार्थोपमादिभिः ॥ इति । [ ] २ ॥१४॥ अथसंजा[शा ?] तार्थस्योपक्रमे शिक्षामाह
समाप्तमिव पूर्वाधं कुर्यादर्थप्रकाशनम् ।
तत्पुरुषबहुव्रीही न मिथः प्रत्ययावहौ ॥१५॥ कवित्वविधाता वृत्तस्य प्रथमाघे अर्थस्य प्रकाशनं समाप्तप्रायं निर्मिमीते, न तु पर्याप्तमेव । अतो द्वितीयचरणान्ततृतीयचरणयोः समासः सन्धिश्च न वर्त[ ते ? ] ते । अन्यत्रोपमार्थान्तरन्यासप्रभृतिप्रकारैरर्थपूरणं कुर्यात् । तत्पुरुषबहुव्रीहिश्च तत्पुरुषबहुव्रीही समासौ. मिथोऽन्योन्यं प्रत्ययमावहत इति मिथः प्रत्ययावही न विधेयौ । इह तत्पुरुषो बहुव्रीहि समास इति संशयस्थल नानेतव्यम् । यथा-मुरस्य अरिः मुरारिः, मुरः अरिः यस्येति तत्पुरुषबहुव्रीयोः निर्णयः कर्तुं न शक्यते। अतो न एतौ प्रतीतिविधायको निर्दिष्टौ । वृत्त्यन्तरे इतरथाऽपि भ्रान्तिर्यथा-पुरुषश्चासावृत्तमश्चेति कर्मधारयः; गमकत्वाद्विशेषणं परं; पुरुषेषु उत्तमः, सप्तमीतत्पुरुषसमासे वा पुरुषोत्तमः । "परमश्चासौ ईश्वरश्चेति कर्मधारयस्य च विद्यमानत्वात् तत्पुरुषभ्रान्तिरनुचिता भणिते" ति चेन, कर्मधारयसंज्ञाधिकृतौ तत्पुरुषसंज्ञाया अपि वैयाकरणैरधिकृतत्वात् । कर्मधारयस्य तु तत्पुरुषसाहचर्यादेव तत्पुरुषभ्रान्तिरुदितेति । लोकपादादौ भगणोऽ"नुष्टुभि सनौनाद्या"दित्युक्तेः [ का. क. वृ. १.१]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org