________________
ज्ञानप्रमोदगणिनिक्दा सख्यमित्यर्थः । अथवा--- तां चावश्यं दिवसगणनातत्परामेकपत्नीम् अव्यापन्नामविहतगतिक्ष्यसि भ्रातृजायाम् । [मे पूर्व. १. ] इति मेघदूतोत्ति व भ्रातरि जाया इति विगृह्य सप्तमीसमासोऽभ्युपगत इति ।।११॥
ननु चेत्प्रत्ययार्थयुक्त्यनुत्पादे सम्यक् कवित्वकरणशक्तिर्न स्फुरति, तदाऽन्यवृत्तार्थमाहाय किमित्यभ्यस्तिर्न निर्मीयते इत्याशङ्का पनुत्तयेऽभिधत्ते ।।
परार्थबन्धाद्यस्य स्यादभ्यासो वाच्यसङ्गतौ।
स न श्रेयान्, यतोऽनेन कविर्भवति तस्करः ॥१२॥ च पुनर्वाच्यस्यार्थस्य संगती (तिः १) रचना, तस्यां विषयसप्तमी इहावसेया; अर्थाऽभिनिवेशविषयो योऽभ्यासः, परेषां काव्यकर्तृणां ग्रहार्थस्य प्रथनात् स्यात, स न श्रेयान् न श्रेष्ठः । यतो यस्मात्कार णादनेनाऽन्यार्थाभिनिवेशेन परार्थगुम्फाद्विधीयमानेनार्थविषयाभ्यासेन वा, कविः वृत्तविधाता तस्करः इव चौरसदृक्षो भवति । तदुक्तम्
परस्य काव्यं स्वमिति ब्रुवाणो विज्ञायते हरिह काव्यचौरः ।
विलोक्य माणिक्यमयोग्यहस्ते प्रत्येति को नाम यदेतदस्य ॥१॥ [जिनवर्धनसूरिवृत्तौ] याच्यसङ्गताविति प्रणयनाच्छब्दसङ्गतिविषयोऽभ्यासः परनिबद्धशब्दप्रहं विदधतोऽपि न चौर्य ख्यापयतीति समस्यायां चान्यार्थादानं विरुद्धयेत, सुतरां विपश्चित्ताधिक्यालोकनादिति ॥१२॥ तथैव ब्रूते -
परकाव्यग्रहोऽपि स्यात्समस्यायां गुणः कवेः ।
अर्थ तदर्थानुगतं नवं हि रचयत्यसौ ॥१३॥ समस्यायां समसन समस्या संक्षिप्तरूपो । सन्ध्यादय इति । यः संक्षेपणीयः पदार्थः समस्येत्यर्थः तस्याम् । परेषां काव्यं कवित्वं, तस्य ग्रहोऽपि । करते कौति वा कवि', 'स्वरेभ्यः' हे व्या. १३३०), इर् इति इ:, तस्य कवेः प्रधानप्रेक्षाविकाय स)रूपो गुणः स्यात् । इहान्यवृत्तादानेन परकवित्वस्यैक उभौ त्रयो वा चरणा आदातव्याः, न तु समयं वृत्तम् । हिर्यस्मात् कारणादसौ समस्यापूरक कविः तस्यान्यवृत्तस्य योऽर्था वाच्यः तस्यानुगतमनुकूल प्रागश्रुतमर्थ, नवं स्वकीय मेधापाटवेन प्रत्ययं प्रश्नाति । एतेन च समस्यापूर्ती परकवित्वार्थ मप्यात्मीयामलधिषणावशोपाजितनूतनाभिधेयेन रचयन् काव्यस्रष्टो चमत्कारविधायको भवति इति सूचितम् । समस्योदाहियते यथा केनचन एकोहि: अदायि 'ठंठ ठ ठ ठ ठ ठ ठ ठं ठः' इत्येतदर्थसंगत्यभिधेयवाचि चरणत्रय नूतन कर्तव्यमिति श्रुत्वा विदुषोक्तम्रामाभिषेके मद वक्लवायाः हस्ताच्च्युतो हेमधटोऽबलाया । सोपानमागे प्रकरोति शब्द ठंठ ठ ठं ठंठ ठ ठ ठ ठंठः । स क.] अन्यच्च ‘समुद्राध्धूलिरुत्थिता' इत्यभिहितः पादः, तदनूदित सुधियां - अगस्तिहस्तविन्यस्तः निःपीतसकलाम्भसः । अधःफणीन्द्रफूत्कारैः समुद्राद्धूलिरुत्थिता ॥२॥ [ ] 9 सरस्वतीकण्ठाभरणे इद शब्दकृताया: गुम्फनाया: उदाहरणरूपेण दत्तम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org