________________
ज्ञानप्रमोदिकावृत्तिः
व्यतिरेकोदाहरणं तु प्रन्थकृत्स्वयमेषोपदिशति -
शिते कृपाणे विधृते त्वया घोरे रणे कृते । न्रधीश, क्षितिपा भीत्या वन एव गता जवात् ॥ ९ ॥
नृणामधीशो नवीशस्तस्य सम्बो ने हे न्रधीश. हे नरनायक; क्षितिं पृथ्वीं पान्ति रक्षन्ति इति क्षितिपाः, अर्थादरातिभूपाः । भीत्या भयेन भयाद्वा, जवात् वेगात् वन एव कानन एव गता । न क्षणमप्याहवे तिष्ठन्त स्म इत्याकूतं । एतेन साध्वसातिरैक्यं प्रख्यापितम् । क्व सति ? त्वया सिते तीक्ष्णे; कृपाणे कल्पते कृपाण, कृषीविषीत्याणक्, [ हे व्या ७.२.२७ कृष्यादिभ्यो वलच् ] तस्मिन्नौ । विधृते गृहीते सति । पुनः क्व सांत ? रणन्ति दुन्दुभयोऽत्र रणः, तस्मिन् रणे समरे; घुरत्यस्माद् घोरं, 'पुन्नाम्नीति' [ हे व्या ५.३१०३ | बाहुलकाद् घ । तस्मिन् घोरे भैरवे, कृते विहिते सति । इह विधृते त्वये' तिप्रतिभृके संयोगबलादाद्यस्य गुरुत्वं न विद्यते, किन्तु नैसर्गिक विभक्तिनिर्मितम् । 'धीश' इति विरूपः सन्धिः, 'क्षितिपा भीत्या' इत्यत्र विसर्गाणां लोपो विद्यते । वन एव' इति विसन्धिरवसेयः । 'गता' इत्यत्र विसर्गाणां लोपनं विहितं इह चेत्थं न क्रियते । एतस्मिन् वृत्ते एतादृशैर्दी में बैन्धशिथिलत्वाद्यासेदुषि ग्रन्थनरमणीयत्वं न विद्यते । अ मनोज्ञकषित्वं चिकीर्षुभि अभ्यासोऽपि रचना सुन्दरत्वान्वितयैव पदपंक्त्या विधेय इति व्यवस्थितम् । अनुल्लसन्त्यां नव्यार्थयुक्तावभिनवत्वतः । अर्थसंकलनातत्त्वमभ्यस्येत्संकथास्वपि ॥ १०॥
"
८
शिष्य : अर्थम्याभिधेयस्य संकलना योजना, तस्यास्तत्त्वं स्वरूपं रहस्यं वाः पद्यग्रन्थन विधानरूपं, संकथासु वानस्त्रत्यभ्यस्येत् । कस्यां सत्याम् ? नूतनार्थयुक्तावनुल्लसन्त्यां अस्फुरन्त्यां सत्याम् । नवाभिधेययुक्ते रविकाशः (सः) कुतः | अभिनवत्वतः कवेनूतनत्वादित्यर्थः ॥१०॥
'यथा' इति दृष्टान्तोपन्यासार्थकः ।
Jain Education International
9
आगम्यतां सखे, गाढमालिङयात्र निषीद च । सन्दिष्टं यनिजभ्रातृजायया तन्निवेदय ॥११॥
अस्यार्थः । सुनोति सनति वा सखा, 'सनेर्डेखि' [ हे उ. ६२५ ] इति खिः, तस्य सम्बोधने । हे सखे हे वयस्य, त्वया आगम्यताम् । तथा अवसरात् गाढं मामालिङ्गय आश्लिष्य, अत्र आसने, त्वं निषीद उपविश । 'आलिंगात्र' इति पाठान्तरे, हे सखे, आलिङ्ग मम आश्लेष विधेहि, इत्यर्थः । तथा यन्निजभ्रातुर्मम जायया भार्यया, यद्वा निजया स्वकीयया भ्रातृकान्तया, सन्दिष्टं यद्वाचिकं मम आदिष्टं विद्यते, तत् त्वं निवेदय ज्ञापय । ननु 'भ्रातृजाया' इति कथं उपनीपद्यते ? अत्र हि योनिसम्बन्धसत्व (वा) त् कृतां " विद्यायोनिसम्बन्ध [ हे. व्या. ६.३.१५० " इति सूत्रेण षष्ठयलुबवाप्तेः तथा च सति 'भ्रातृजाया' इति अलुप् (क) समास: । सिध्यति इति अत्र समाधीयते । भ्रातेव भ्राता सवयाः । अत एव भ्रातृशब्दस्य वयस्यार्थत्वादिह योनिसम्बन्धो नास्तीत्यतोऽलुप्समासो नाभिप्रेतः । तथा च वदावदावदन्ति सहक्षेण साकं भ्रातृत्वं वर्तते,
For Private & Personal Use Only
www.jainelibrary.org