SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ ज्ञानप्रमोदगणिनिबद्ध आदरो रचनादरो भवति, तमभ्यासं विदुः निणी तत्वेनावगच्छन्ति । कवय इत्यध्याहार्यम् । अनेन कहि चित् सकृत् योऽभ्यासोऽभ्यससमानं व्यधायि, सोऽभ्यास एव नोद्यत इति सूचितम् । तस्य प्रथमोदितस्याभ्यासस्य, कोऽपि कश्चिदपि, न अखिलः इत्यभिप्रायः क्रमप्रकारः उपदिश्यते प्रणीयते ॥८६॥ तमेव व्यक्तीकरोति बिभ्रत्या बन्धचारुत्वं पदावल्यार्थशून्यया । वशीकुर्वीत काव्याय छन्दांसि निखिलान्यपि ॥७॥ विनेयः पदावल्या पदानामावली लेखा, तथाऽष्टगणरूपया, निखिलानि समस्तान्यपि छन्दांसि छाद्यत एभिः प्रस्ताराद्भरिति छन्दांसि । छादेनश्च दात्पूर्वः इति छादयतेरसुन् दात्पूर्वो नकारश्च । अनुपधत्वात् हस्वत्वम् । श्रीशालिनी मालिन्यादीनि वशीकुवी तानायत्तान्यपि स्वायत्तानि विदधीत । कस्मै ? काव्याय, वृत्तनिर्मापणार्थम् । किंलक्षणया पदावल्या ? अर्थेनाभिधेयेन शून्या अर्थशून्या, तयापीत्यर्थः । किं कुर्वत्या ? बन्धचारुत्वं बिभ्रत्या । बन्धस्य ग्रंन्थनस्य चारुत्वं सान्त्वसोमालपदपदवीयोगेन चेतोहरत्वं बिभ्रत्या दधत्या । यादृक्षो ह्यादितोऽभ्यासस्ताहगेवाग्रे कार्यसिद्धिरिति रमणीय वृत्तं कतु कामे. अभ्यासोऽपि मार्दवलालित्योपेतपदवृन्दसुस्वादुत्वान्वित एव कर्तव्य । इह तु उदाहरणम् हेलादोला पत्रमाला विशाला श्रद्धा मेधा सिद्धिवृद्धा समृद्धा । ज्ञेया हेया नामधेयावसेया प्रज्ञा संज्ञोपज्ञया धर्मरूढ ॥१॥ [ ] "शालिन्ययुक्ता स्तोतगौगोब्धिलोकैरिति” [वृ.र. ३.३४] लक्षणयुक्तशालिन्यभ्यासोऽर्थसम्पर्करहितयापि पदपंक्त्या कर्तव्यश्च । इत्थमखिलान्यपि छन्दांसि अर्थयुक्तैरर्थवियुक्तैर्वा शब्दसन्दभैरभ्यसनीया नीति ॥७॥ यादृशं बन्धचारुत्वं यया भवति तथा चाह पश्चाद्गुरुत्वं संयोगाद्विसर्गाणामलोपनम् । विसन्धिवर्जनं चेति बन्धचारुत्वहेतवः ॥८॥ अर्थपदश्रेण्या इति बन्धचारुत्वहेतवो भवन्ति । इतीति किम् ? संयोगात्पुर:स्थितसंयुक्ताक्षरबलात् । पश्चादिति दिग्देशकालार्थस्य सप्तमीपञ्चमीप्रथमां तस्यावरशब्दस्यातिः प्रत्यय , पश्चभावश्च सद्य आदित्वेन निपात्यते, अवरस्यां दिशि स्थितस्य पश्चाद्वर्णस्य गुरुत्वं विधीयते । तथा च सति बम्धस्य स्थैर्य भवति । तथा विसर्गाणामलोपन न लोपः कर्तव्यः । च पुनर्विसन्धिवर्जनं विमम्धीति विना त्र विरुद्धभावाद्यल्लक्षणकर्षो द्योत्यते । ततो "विस्वरोऽयं गायनो विमदो यतिरेष चे" तिदिहापि विरुद्वो विरूपो वा सन्धिः विसन्धिः, यद्वा विगतः सन्धिर्विसन्धिरिति विरूपसन्वेरसन्धेस्त्वपोहः कर्तव्य । एतादृशाश्चापरेऽपि स्रष्ट्रप्रमुखशब्दापोहनादयो रचनामनोरमताहेतवो भवन्ती ते प्रकारार्थः सूचितः॥८॥ ___ इहान्वयोदाहरणं प्रदर्यते-रसैः कथा यस्य सुधावधोरणी नलः स भूजानिरभूद्गुणाद्भुतः । सुवर्णदण्डैकसितातपत्रित: प्रवरप्रतापावलिकीर्तिमण्डलः ।।१।। [ने. १.२] 8 नोच्यते-प्रा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001591
Book TitleGyanpramodika
Original Sutra AuthorGyanpramod Gani
AuthorR S Betai, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy