________________
ज्ञानप्रमोदिकावृत्तिः
प्रथमोपदिष्टां प्रतिभां व्याचष्टे-
प्रसन्नपदनव्यार्थयुक्त्युद्बोधविधायिनि ।
स्फुरन्ती सत्कवेर्बुद्धिः प्रतिभा सर्वतोमुखी ॥४॥
एवंविधसत्कवेः-संश्चासौ कविश्व सत्कविः, तस्य, श्रेष्ठकवित्वकर्तुः, बुद्धयतेयऽनया सा बुद्धि, प्रतिभेत्यभिधीयते । कथंभूता प्रतिभा ? प्रसन्नं प्रसन्नानि कोमलामलप्रस्फुटाक्षरत्वेन सुललितानि, पद्यते गम्यतेऽर्थो यैः तानि पदानि । वर्षादित्वादल, [हे. व्या. ५.३.२९ वर्षादयः क्लीबे] | नव्या नूतना, अर्यन्ते अधिगम्यन्ते अमी अर्थाः निर्गयार्थाः । ऊषिकुषिगार्तिभ्यः स्थः इति थः । अर्ध्यन्ते इति वा । ततः प्रसन्नपदानि च नव्यार्थाश्च प्रसन्नपदनव्यार्थास्तेषां युज्यंत आभिस्ताः युक्तयः, तासमुद्बोधः । उत् प्राबल्येन बोधो ज्ञानं, तस्य विधायिनी निर्मात्री । यद्वा प्रसीदन्ति स्म प्रसन्नानि असंकुलानि यानि पदानि । नव्याश्च या अर्थयुक्तयः, तासां उद्बोधो विकाशः (सः), तं विदधाति सृजतीत्येवंशीला । सा तथा । पुनः किंविशिष्टा ? स्फुरन्तो अस्खलद्रूपा । सर्वतो मुखमारम्भो यस्याः सा, तथा । सर्वांगीणेत्यैदम्पर्यम् ||४||
अव्यवहितक्तां व्युत्पति निरूपयति-
शब्दधर्मार्थकामादिशास्त्रेष्वाम्नायपूर्विका ।
प्रतिपत्तिरसामान्या व्युत्पत्तिरभिधीयते ॥५॥
द्वन्द्वान्ते यमाणं पदं प्रत्येकमभिसम्बध्यते इति शास्त्रशब्दस्य प्रत्येकमभिसम्बन्धात् । शयति कूटोच्चारकं शब्दः । शाशयिमनीतिद: [ हे.उ. २३७] राष्ट्र्यतेवा (र्वा ? ) । शिष्यत इति शास्त्रं शासनाद्वा । शब्दप्रतिपादकं शब्दशास्त्रं व्याकरणम् । धरति स्वैरतां धर्मः, अतरीतिमः । धरति स्थापयति सुगताविति वा । तथोक्तं हेमचन्द्रसूरिपादैर्योगशास्त्रे - दुर्गति तत्प्राणिधारणाद्धर्म उच्यते (हे. यो. २.११] । ततो धर्मप्रतिपादकं धर्मशास्त्र अर्हत्प्रज्ञप्तसमयः । अर्थशास्त्रं चाणक्योदितनृपनीतिग्रन्थः । कामशास्त्रं काम्यत इति कामो अनङ्गः, तत्प्रधानं शास्त्र कामशास्त्र, कोकवात्स्यायनाथम् | आदीयते प्रथमं गृह्यते इत्यादिः पुंसि उपसर्गाद्दः । किं ततः च ? आदिशब्दान्नामको पच्छन्दोऽलंकृति यद्विपविशिष्टामणि परीक्षाप्रमुखशास्त्राणि, सौगतादिदृष्टया भिधायकशास्त्राणि चादीयन्ते । ततः शब्देत्यादिना द्वन्द्वे विहिते, शब्दधर्मार्थकामाः, ते आदौ येषां तानि शब्दधर्मार्थकामादीनि । शब्दधर्मार्थकामादीनि च तानि शाखाणि च । तथा तेषु समस्तेषु, आम्नायो गुर्वाम्नायो, पूर्वो यस्याः सा, आम्नायपूर्वा । सैवाम्नाय पूर्विका, 'स्वार्थे' [हे. व्या. ४.४.६० ] के । असामान्या प्रतिपत्तिः विशेषपरिज्ञानं व्युत्पत्तिर्भण्यते । व्याकरणानभिज्ञो हि वृत्ते क्रियादिपदं fararय नितिमान्न भवति । धर्मशास्त्राद्यकुशलस्तु तत्तत्प्रबन्धेषु वृषार्थाऽनङ्गापवर्गादिकार्यवृन्दमुदाहतुमक्षमः कथं भवति कविरिति ।
पश्चादुद्दिष्टमभ्यासं विवृणुते -
Jain Education International
अनारतं गुरूपान्ते यः काव्ये रचनादरः ।
तमभ्यासं विदुस्तस्य क्रमः कोऽप्युपदिश्यते ॥ ६॥
योsनारतं नास्त्यातं विरामार्थकं यस्मिंस्तत् नञ्समासेऽनारतं सततम् | अन्तं समीपमुपगतं उपान्तं गुरूणामुपान्तं तस्मिन् गुरुसन्निकर्षे । काव्ये कवित्वविषये रचनायाः गुम्फस्य
"
For Private & Personal Use Only
www.jainelibrary.org