________________
ज्ञानप्रमोदगणिनिबद्धा औदार्यादयो मैत्रीक्षमापशमरूपादयो वा । यदुक्तं विश्वप्रकाशे-गुणौ प्रधाने रूपादौ मौव्यां सूदे वृकोदरे । संवेसत्त्वादिसंस्थादिविद्यादिहरितादिषु' इति । अलड्कियत एभिरित्यलङ्काराः । शब्दा. लङ्काराश्चित्रवक्रोक्त्यादयोऽर्थालङ्काराश्च जात्युपमादयः । ततश्च द्वन्द्वे, गुणालङ्काराश्च गुणालङ्काराः, तैषितं शोभितमेतेन । तार्ती योको गुणपरिच्छेदस्तुर्यस्त्वलङ्कारपरिच्छेदः प्रज्ञापितः । पुनः कोदृशम् ? स्फुटरीतिरसोपेतम् । स्फुटा वृत्तानुकूल्येन स्पष्टाया:, रीयते यात्याभिरिति रीतयो गौडीयाद्याः पदग्रंथनविशेषाः । सामाजिकैः रस्यन्ते चय॑न्ते इति रसाः । रसन्ति रसेन यज्यन्ते इति वा । 'एचाद्यच' । शङ्गारप्रभृतयोऽभिधास्यमानाः । ततः स्फुटरीतयश्च रसाश्च स्फुटरीतिरसाः, तः उपेतं युक्तम् । एतेन तुरीयपरिच्छेदे रीतिव.थनं प्रख्यापितं, पञ्चमस्तु रसपरिच्छेदो ज्ञापितः । प्रथमः पुनरयं शिक्षापरिच्छेदः । काव्यरसे च सम्यक्विचलब्धिस्फूर्तिमत्कर्तृकस्य धनात्यायनेकगुणत्वेऽपि की रेवादानं मुख्यत्वख्यापनार्थ', यद्धि काव्यं द्रविणं व्यवहतिबोधन, शिवेतरक्षपणं, दीर्घदशि नामाहूलादनं च वितनोति । तदेव च कवित्वं कान्तासम्मितभूतं कान्तावत्सरसताप्रापणेन सम्मुखीकृत्य रामचन्द्रवत् प्रवर्तनीयं न दशास्य इव इत्याद्युपदिष्टिं च निर्माति । तथा चोक्त काव्यप्रकाशे "काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिवृ(कृ)तये कान्तोसम्मततयोपदेशयुजे ॥१।। [का.प्र. १-२]
शास्त्रं हि त्रिधा, प्रभुसम्मितं, सुहृत्सम्मितं कान्तासम्मित चेति । तत्राद्यं शब्दश्रेष्टं वेदादिः१ द्वितीयमथैदपर्यवत्पुराणादि: २, तृतीयं चोक्तलक्षणं प्रधानकाव्यादिः ३ । एतद्विलक्षणं काव्यं तु विपरीतफलमेव स्यादिर्थः ॥२॥ अथ कवित्वस्योत्पादनाय सामग्रीमभिधत्ते
प्रतिभा कारणं तस्य व्युत्पत्तिस्तु विभूषणम् ।
भृशोत्पत्तिकृदभ्यास इत्याद्यकविसंकथा ॥३॥ आद्यकवीनां पुरातनकवित्वविधाणां सन्मुखं संकथनं संकथा, 'भीषिभूषोत्यङ्' हे. व्या ५.३ १०९) संकथा उपदेशो, वार्ता शिक्षा वा इति विद्यते । इतीति किम् ? सर्व हि वाक्यं सावधारणमामनन्ति इति न्यायात् । प्रतिभानं प्रतिभा, सैव तस्य काव्यस्य कारणं बीजं भवति । यदुक्तं ज्ञानवीजभूतः संस्कार विशेष प्रतिभेति काव्यप्रकाशे । यद्वा नूतननूतनज्ञप्तिप्रकारभासिनी बुद्धिः प्रतिभेति । तदुक्तं. "बद्धिनवनवोल्लेखशालिनि प्रतिभा मता ।" [भद्रतोतः] ननु कवित्वनिर्मिती प्रतिभैव योनिश्चत. तहि व्युत्पत्ति रिपन्थपरिज्ञानं किं घटयति ? प्रोच्यते तस्य वृत्तस्य प्रतिभयोत्पाद्यमानस्य तु पुनः, व्युत्पादनं व्युत्पत्तिः, विभूषणं विशिष्टालङ्कारः स्यात् । अभ्यसनं अभ्यासः अभ्यासीदति वा । अन्यतो पिचे तिङः । भूयोभूयस्तन्निर्माणरूपः तस्य काव्यस्य, भृशं अत्यर्थ, उत्पत्तिः झटित्युत्पादनं करोतीति भुशोत्पत्तिकृत् स्यात् । अभ्यसने ह्यन्तःकरणदादादियोगादविलम्बेनैव वृत्तनिर्माणात् । तथोक्तं हेमचन्दाचार्यवय :---
आगमेनानुमानेन ध्यानाभ्यासरसेन च । त्रिधा प्रकल्पयन् प्रज्ञा लभ्यते योगमुत्तमम् ॥१॥ इत्यनेन प्रतिभाव्युत्पत्त्यभ्यास त्रयोऽप्यात्मीयात्मीयविषयपृथक्त्वाभिधायित्वेनोक्ताः ।।३।। 5 शक्तिः कवित्वबीजरूपः संस्कार विशेष: ।
6 मूले तु-'प्रज्ञा नवनय......' इति । 7 पातमजलयोगसूत्र व्यासभाध्ये समाधिपाद सूत्रमीमांसायामुघृतमिदम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org