________________
ज्ञानप्रमोदिकावृत्तिः
अभेयश्चासौ जिनेश्चति कर्मधारयेऽभेयजिन इत्येतादशश्च सामान्यकेवली पठ्यते । तस्य संसृतिभ्रान्तिभयापोहात् तन्निवृत्त्यर्थ' श्रीनः इति । श्रीनश्चासावभेयजिनश्च श्रीनाभेय इत्येवंलक्षणोऽहंन्नेव भवतीत्युत्मर्गनोऽहेतो नमस्कृतिविहिता भवति । अथवा काव्यशास्त्रस्य सर्वेषामपि सामान्योपयोगित्वात् वैष्णवमतेनापि नमस्कारो लभ्यते, व्याख्यान्तरतो यथा-श्रीः कृष्णवधूः । नाभेरुद्भवत्वात् ब्रह्मापि नाभेयोऽभिधीयते । विष्णो भिस्थपद्मे वेधसो निवास इति लोकवाक्यम् । तथा चाहुभिभूः पद्मभूरित्याभिधानानि । जिनः पीताम्बरोऽप्युच्यते । तथा चोक्तं - "पीताम्बरो मार्जजिनः कुमोदक" [२.३०] इत्याद्यभिधानचिन्तामणौ । ततोऽयमर्थः-श्रीश्च नाभेयश्च श्रीनाभेयः, तदुपलक्षितो जिनः । सः श्रिय शोभा, दिशतु । वेति निपातपदमवधारणे पूरणे च । तदुक्तं-"निपाताश्वोपसर्गाश्च धातवश्चेति ते त्रयः । अनेकार्थाः स्मृता. सर्वे, पाठस्तेषां निदर्शनात् ।।'' इति मिश्रः । कथंभूतः श्रीनामेगजिनः ? उ देवः । उ शब्दः ईश्वरार्थकः । उक्तं च काव्यकल्पलतावृत्तौ "उः ईश्वरः इत्येकाक्षरनाममालायां च ॥” उः गिरीशः, स एवार्चनीयत्वाद् देवो यस्य स, उ देवः । तथा चोक्तं-- "सुखसन्तानसिद्धयर्थ नत्वा ब्रह्माच्युतार्चितम् । गौरोविनायकोपेतं शङ्करं लोकशङ्करम् ।। [वृर ,११] इति केदारमिः । इत्याद्यश्लोकतात्पर्यार्थः ॥१॥
नन्त्रभिधेयादिशून्यत्वात् काकदन्तपरोक्षादिवदिदं ग्रन्थकरणमनुपपन्नमिति चेन्न, तत्सद्भावात् । तथा हूयस्मिन् शास्त्रेऽलङ्काररसादिवक्तव्यतारूपमाभधेयम् । तत्पारज्ञानं श्राणामनन्तरप्रयोजन कर्तुश्च तदेव मत्त्वानुग्रहः । परम्परप्रयोजनं तूभयोरपि परमपदावाप्तिः । सम्बन्धस्तूपायापेयतावलक्षणः, तत्र वचनसूपायन शास्त्रं उपायः, तत्परिज्ञानमुपेयम् । तदुक्तं__ज्ञातार्थ ज्ञातसम्बन्ध श्रोतुं श्रोता प्रवर्तते । शास्त्रादौ तेन वक्तव्यः सम्बन्धः सप्रयोजनः ।। इति न्यायेन श्रोतृणां सुखप्रवृत्तयेऽस्य ग्रन्थस्य तद्वत्त्वम् । अमुमेवार्थ व्यक्तीकर्तुमभिधास्यमानार्थपरिच्छेदपरिपाट्युद्देशसम्बद्ध काव्यकृत्यं विवृण्वन्नाह --
साधुशब्दार्थसन्दर्भ गुणालङ्कारभूषितम् ।
स्फुटरीतिरसोपेतं काव्य कुर्वीत कीर्तये ॥२॥ काव्यं कुर्वीत इति इह कर्मक्रियापदान्वयानुरोधेन विनेय इत्यादि गम्यमानवतु सत्त्वात् ततो विनेयः कर्ता । एतादृशं काव्यं. कवेः कर्म काव्यं, एतराजांते त यणि प्रत्यये माधुः । वृत्तं कोत (त)ये यशसे कुर्वीत निर्मिमाते । कुर्वी तेत्यत्र फलवकर्तर्यात्मनेपदकरणात् कीत्तत ये इत्यनेन चात्मगामि
पदिष्टम । किंलक्षणं काव्यम? साधशब्दार्थसन्दर्भ कायष्यमाणानर्थकादिदोषापेत. शब्दः साधुण्यते । अर्थो मभिधास्यमानदेशविरुद्धादिदूषणत्यक्तः साधुश्च । ततः साधू निर्दोषौ शब्दाथौं यत्र, सन्दर्भ स साधुशब्दार्थः । साधु. प्रधान शब्दार्थसन्दर्भो रचना यस्मिन् तत्तथा। यदाह वामनः
- "अदोषौ सगुणौ सालङ्कारौ शब्दाथी' काव्यम् ।”[का शा १.११] तयोस्तच्छरीरत्वादिति भावः । 'साधुशब्दार्थ इत्येतेन तु शब्दार्थाभिधायको द्वितीयः परिच्छेदः ख्यापितः । पुनः कथंभूतम् ? गुणालङ्कारभूषितम । गुणयन्ते अन्यस्यन्ते श्रेयोऽथिभिः इति गुणाः, 4 इ. वस्तुतरतु काव्यानुशासने श्रीहेमचन्द्रोक्तम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org