________________
ज्ञानप्रमोदगणिनिबद्धा विघ्नात्यन्ताभावादिति प्रयोगस्तु मङ्गलं विघ्नध्वमद्वारकः तदितरद्वारकन्वेऽति । कालान्तरभाविफलजनकत्वादित्यनुमानम् । तथा मङ्गलं समाप्तिफलक, तत्कामैः शिष्टैः क्रियमाणत्वात् , तत्फलकलौकिक धर्मवत् इति अपरमनुमान. इत्याद्यनेकयुक्तितः फलमनयोविद्यमानत्वादुचितमेव मङ्गलाचरणमिति विज्ञाय 'आशीनममिक्रयावस्तन्देिशो वापि तन्मखम' इत्याशीराद्यन्यतमस्य प्रबन्धमुखलक्षणवादलङ्काररूपं वस्तु आदौ श्रीरवपूर्वकं निर्दिशश्च निर्विघ्नमारब्धकर्मममाप्तिकामः तन्मङ्गलमाचरितवान् ग्रन्थकारः ।
श्रिय दिशतु वो देवः श्रीनाभेयजिनः सदा ।
मोक्षमार्ग' सतां ब्रूते यदागमपदावली ॥१॥ व्याम्या । श्रीनाभेजिनोवो युष्मभ्यं श्रीयं दि इत्यन्वय । ३१ यत्तदोनियासि बन्धात पुरत' तुर्याहि स्थितयदागम इत्यत्र वक्ष्यमाण'यत शब्देनानभिहितस्यापि 'तत' शब्दस्य ग्रहणात, स इति लभ्यते । ततोऽयमर्थः । सः श्रीनाभेयजिनो व . श्रीयते आश्रीयते सवैरिति श्रीः, तां श्रियं सातिशयलक्ष» त्रिवर्गमम्पत्ति, भारती शोभा वा । तथा चोक्त विश्वप्रकाशे--
श्रीर्वेषरचनाशोभाभारतीमरलद्रमे । लक्ष्म्यां त्रिवर्गसम्पत्ती वेषोपकरणे मतौ ॥ इति । दिशतु रातु इत्यर्थः । दिशतु इति दिशेरतिसज्जनार्थकात कर्तरि लोटः प्रथम पुर पैकवचनम् । इत्थमन्यस्मिन्नपि स्थले यथासम्भवं युक्तिबलादन्यशब्दादेरध्याहारः कार्यः । नाभेरपत्यं पुमान्नाभेयः । इतश्चानञः इत्येयणि । श्रिया अष्टमहाप्राप्तहादिलक्ष्म्या युक्तो नाभेयः श्रीनाभेयजिनः ।" किंलक्षण श्रीनाभेयजिनः ? देवः। दीव्यति दिव्यकेवलज्ञानश्रिया सातिशयाचिः प्रकरतिरस्कृतनिखिल रोचिः। प्रस्तरत्वात् दाम्यत इति देवः । 'एचादित्वादच' [म. ३.१०] । स क इत्याह यम्य तीर्थ करस्य आगम पदानां समयोक्तीनां, आवलो राजिः, यदागमपदावली । सतां सत्पुरुषाणां, भवाटवीपातरक्षणान्मोक्षस्य मार्गः, तथा तं सम्यगवबोधश्रद्धानचरणाहवरत्नत्रयात्मकसिद्धेरध्वानम, ब्रते व्यक्तं व्यक्ति । यथाऽन्यस्यापि कस्यापि कस्यचन आगमस्य आगमनस्य, पदानि चरणन्यासप्रति बिम्बा ने, तेषां आलि निरीक्षिता सती सतां वर्म प्रकट यति इत्युक्तिलेशः । एतेन परमेश्वरम्य श्रीनामेय १, जिन २, देव ३, मोक्ष ४ इत्यायुत्तरार्धलक्षणपदसमुदायोक्तातिशयाधिकारचतुष्केण पूर्वव्याख्यातशब्दार्थानुसारेण पूनापायापगमज्ञानवचनाहूक्यातिशयचतुष्टयं मूलातिशयत्वेन ज्ञापित मित्याशयः । यथा ग्रन्थादौ त्रिपकाराणां देवतानां स्तुतिः संबोभोति । तथा चाह-समुचितायाः १, इष्टायाः २, समुचितेष्टायाः ३ च देवताया इति । तासां देवतानां स्तुतयो यथा राजनीतिकामः शास्त्र१ रघुवंश२, योगशास्त्रारम्भेषु३:, नृपकन्दर्पादि१शंभूमा २ योगिनाथ ३महावीरलक्षणानां यथाक्रम देवतानां स्तुतयः सूचिताः । इह पुनः ग्रन्थारम्भे वाग्भटो विद्वच्छिरोमणिः श्रीनाभेयस्तुत्या समुचितेष्ट - देवतास्तुतिं निर्मिमीते स्म । अथ टीकान्तरं चानुसृत्य अस्य व्याख्यानान्तरं प्रोच्यते । श्रियोऽष्टमहा. प्राप्तिहार्या लक्षम्योः चतुस्त्रिंशदतिशयरूपलक्षम्या वा । इनः स्वामी श्रीनः आहेत्य लक्ष्मीनायकः 'ञिभीभये' इत्यतो यकिः, भीयते इति भेयं, भावे यः एकचात इति य । भय मत्यर्थः । न विद्यते भेयं, भवभ्रपोद्भवमयं यस्य सः, अभेयः । जिन इत्युक्नेऽवधिजिनः श्रुतजिनश्चाप्युच्यते । श्रुतजिनस्तु श्रुनकेवली कथ्यते । तयोः तस्य वा प्रायः रागादिभिः जयात्तन्निराकरणार्थमभेय इति । 2 कर्मवत्-व., पा. 3 अत्र व. मध्ये विशेष-मयूरव्यंशकादित्वान्मध्यमपदलोपी समास: । रागद्वेषाद्यन्तरदातिवज्जेतृत्वाज्जिनः । श्रीनामेयो योऽसौ जिनः श्रीनाभेयजिनः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org