________________
ज्ञानप्रमोदिकावृत्तिः तुर्यभेदमावेदयति
स्यादेकतरपञ्चत्वे दम्पत्योरनुरक्तयोः ।
रागारः करुणाख्योऽयं वृत्तवर्णन एव सः ॥१९॥ अनुरक्तयोरन्योन्यं आन्तरप्रीत्यन्वितचेतसोः दम्पत्योः जायापत्योः अनुरक्तयोः, एकतरस्य पञ्चत्वे देहस्तावत्पञ्चभूतारब्धनिधनत्वे, तस्य पञ्चानामभावः पृथक्त्वं पञ्चत्वम् । प्रत्येक स्वांशसंक्रमात्तस्मिन्नाशेऽन्यतरस्य भर्तुः कलत्रस्य वा विरहोऽयं करुणाहयः शृङ्गारो जायेत । परं सवृत्तवर्णने आचारदृढत्वप्रवेदने कृत्यवानित्यध्याहार्यम् । तदुक्त
यत्रकस्मिन्विपन्नेऽन्यो मृतकल्पोऽपि तद्गतम् । नायकः प्रलपेत्प्रेम्णा करुणोऽसौ मतो यथा ।। [श. ति. २.६०] म्लानो मुक्ताश्रुरुद्विग्नः श्रान्ताङ्गो' । नष्टचेतनः ।
सचिन्तो दैन्यभावोऽस्मि' नैवंप्रायो जनो भवेत् ॥१ [शू, ति. २.६१] अत्र प्रियतमस्य करुणविप्रयोगः ।
वक्त्रं चन्द्रमसा दृशौ मृगगणैः केशाः कलापिव्रजतिङ्गैः स्तनमण्डलं भुजलतोल्लासो लतामण्डपैः । सौगन्ध्यं मलयानिलेन बलिना तन्वी विभज्येति सा सर्वैर्निष्करुणैर्हता ध्रुवमहो देवेन नैकेन मे ॥२ [शु ति. २] इयती सुभगावस्थां गतोऽसि यस्याः कृते स्मरातङ्कात् ।।
मूर्छा हरामि सा तव गतपुण्या नयनसलिलेन ॥३ [श. ति. २] इह नायिकायाः देवेन नैकेन मे मूछौं हरामीत्यादिभिराचारदार्यम् ।
स्त्रीपुंसयोर्भवेदेष सापेक्षः सङ्गमे पुनः ।
शृङ्गारवचनप्रायः करुणः स्यात्स चान्यथा ॥४ [श. ति. २.६५ ] एवं विप्रलम्भचतुष्टये । प्रेयसी रमणपरतया दृष्टान्तद्वितयं प्रदर्शितम् । अयं संयोगवियोगप्रच्छन्न. प्रकाशप्रभृतिकः प्रकारः । शुङ्गारो निश्चितनायकनिष्ठत्वेनैव भणितः । वृत्ते नाट्ये चेयं मम भार्या, ममेदं धनं, मां प्रति स्नेहात्कटाक्षक्षेपा इत्यादि सम्बन्धेनैव पात्राभिनीयमानतत्तद्वेषगतिवागादिनिरीक्षण - श्रुत्यनुभवलक्षणैर्विभावानुभावादिभिः सामान्येन प्रतीतेरभिख्यातः । पार्षद्यानां वासनारूपेण स्थितः स्थायी रतिनामानुभूयमानतैकस्वरूपो विभावादिस्मृतिमर्यादोऽलौकिकचमत्कृतिविधायकत्वेन केवलसातस्वरूप एव शृङ्गारः । तदुक्तं
अमृतमेव हि सज्जनमानवो वितथमित्थमुवाच कविर्जनः । विरचयेदमृतं रसितं सुखं श्रुतविलोकित एव हि सज्जनः ॥१ [
74. प्रथमपादत्रयं-अ. शे. २०.१४ 76. मुले - दैन्यभागस्मिन् ' इति ।
75. मूले-' स्रस्ताङ्गो' इति पाठः । 77. मूले -' साक्षेपः' इत्यपि पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org