SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ज्ञानप्रमोदगणिनिषदा अपराङ्गनासङ्गमजन्मा यथा दयितस्य निरीक्ष्य भालदेशं चरणालक्तकपिजरं। सपत्न्याः । सुदृशो नयनाम्बुजस्य भासः श्रुतिमुक्ताः शिखरोपमाः बभूवुः ॥३ (र.म.३८] यदुक्त स्नेहं विना भयं न स्यान्मन्मथो नेय॑या विना । तस्मान्मानप्रकारोऽयं द्वयोः प्रीतिविवर्धनः69 ॥४ [शु ति. २.५३] दृष्ट्वा चन्द्रमसं मनोभववधूकेलिक्रियाकन्दुकं प्रोन्मीलन्नवमालतीपरिमलं चाघ्राय मानौषधम् । दीपार्चिः कपिशां च चित्रवलभीमालोक्य लोलशा मानिन्या चटुमात्रिकेण रमणे मानो मनाग्मन्दितः ।।५।२ शु. ति २] तृतीयं लक्षयति प्रिये रमणे, प्रमदाजने वा, देशान्तरस्थे यो विरहस्य विप्रयोगस्य, संभव उद्भवः बिरह सम्भवो भवेत् , सः प्रवासः प्रणीयते । तथोक्त शृङ्गारतिलककारेण परदेशं व्रजेद्यत्र कुतश्चित्कारणाप्रियः । स प्रवास इति ख्यातः कष्टावस्थो द्वयोरपि ॥६ [श. ति. २.५७] यथा कामं कर्णकटुः कृतोऽतिमधुर. केकारवः केकिनां मेघाश्चामृतवर्षिणोऽपि विहिताः प्रायो विषस्यन्दिनः । उन्मीलन्नवकन्दलावलिरसौ सप्यौप्यशय्यायते'० तत्कि यद्विपरीतमद्य न कृतं तस्याः वियोगेन मे ।।७ [शु ति. २] इह प्रियतमस्य व्यक्तो विप्रयोगः । निःश्वासैः सह साम्प्रतं सखि गताः वृद्धि परी रात्रयः साधु लोचनवारिणा विगमित' 1 तत्प्राकृतं मे सुखम् । प्राणाशा तनुतामुपैति च मुहुर्ननं तनुस्पर्द्धया कन्दर्पः परमेकमेव विजयी याते च कान्ते स्थितः ।।८ [श. ति. २] किं तत्र नास्ति रजनी किं वा चन्द्रो न किन्तु सोऽप्यरुचिः । येन सखि वल्लभामपि न स्मरति स मां विदेशरुचिः ।।९ [शु. ति २] इह दयितायाः कन्दर्पः परमेक एव विजयी विदेशरुचि रित्यादिभिः प्रवासो बोधितः ३ । 67. मूले-'पिङ्गलं' इति परिमलव्याख्या याम् । 69. भूले -' प्रीतिप्रकाशकः' इत्यपि पाठः। 71. मले-'विगलितं ' इति । 73. मूले-' चन्द्रो न सुष्टुरुचिः' इत्यपि पाठः । 68. मूले- नयनस्य कोणभास:' इति । 70. — सह्योऽव्यसह्यायते' इति गूले । 72. मुले-'यत्प्राक्तन' इति । 72. मुले-'यन्त्र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001591
Book TitleGyanpramodika
Original Sutra AuthorGyanpramod Gani
AuthorR S Betai, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy