________________
ज्ञानप्रमोदिकावृत्तिः
कस्मारकृत्रिमप्रणयस्वमित्याचष्टे-हि यस्मात् कारणात्तस्याः दातारं वित्तदायकं विना । तमपहायान्यः कश्चन न प्रियो नाभिमतो, यथा
कुष्ठिनोऽपि स्मरसमान् पश्यन्ती धनकाक्षया । तन्वन्ती कृत्रिमस्नेहं निःस्नेहां गणिकां त्यजेत् ॥३ [हे. यो. शा. २.९२] चोलं नीलनिचोलकर्षणविधौ चूडामणि चुम्बने याचिध्ये कुचयोः करार्पणविधौ काञ्ची पुनः काञ्चनीम् । इत्थं चन्द चर्चितैर्मगमदैरङ्गानि संस्कुर्वती
तत्कि यन्न मनोरथं वितनुते बारेषु वाराङ्गना ॥४॥१४॥ [र. म. ६९] प्रच्छन्नप्रकाशयोविभागभिधित्सुव्रते
सर्वप्रकाशमेवैषा याति नायकमुदता ।
वाच्यः प्रच्छन्न एवान्यः स्त्रीणां प्रियसमागमः ॥१५॥ एषा गणिका, सर्वप्रकाशमेवेति निश्चितं सकलस्फुटं, नायकं याति नायकं प्रति सर्वप्रकाश यानं गमनं करोतीत्यर्थः । सर्वप्रकाशमित्यादौ क्रियाऽव्ययानां भेदकानि एकत्वेऽपि । क्रियाणामव्ययानां च भेदकानि विशेषणानि क्लीबे स्युः एकत्वेऽपि । तद्यथा-मृदु पचन्ति, शोभनं पचन्ति । बहुवचनेऽपि क्रियाशब्दतद्विशेषणस्यैकत्वमेव । क्रियाविशेषणानां कर्मत्वात कर्मणि द्वितीया । सर्वो हि धात्वर्थः करोत्यर्थेन व्याप्तः, मृदु पचन्ति मृदु पचनं कुर्वन्तीत्यर्थः । तेन मृदादीनां, तद्धितविशेषणानां च कर्मत्वम् । तद्वदिहाप्यवसेयम् । अपरः पुनराचष्टेसर्व धात्वर्थाश्च भवत्यर्थानुगताः भवन्ति, क्रियाकर्तत्वमनुभवन्तीत्यर्थः । पचति देवदत्तः इति देवदत्तप्रयुक्तः पाको भवति; गच्छति गमनं भवति; पठति पाठो भवति । तन्मते प्रथमाः मृदु पचनं यथा भवति तथा पचन्तीत्यर्थः । तद्वदत्रापि सर्वप्रकाशं निखिलव्यक्त, यानं यथा भवति तथैव नायकं यातीत्यर्थः । कीदृशी गणिका ? उद्धता उच्च्छंखला । यद्वा उद्धता नरास्ता भजन्ते । अन्यत्रीणां अपरवनितानां तिसूणां प्रियसमागमः प्रच्छन्नः गुप्त एव वक्तव्यः । नायिकाथाः असूयाकारणं सपत्नी प्रतिनायिका ।।१५।। इदानी वियोगप्रकारान् व्यनक्ति---
पूर्वानुरागमानात्मप्रवासकरुणात्मकः ।
विप्रलम्भश्चतुर्धा स्यात्पूर्वः पूर्वो ययं गुरुः ॥१६॥ पृणाति पूर्व:, पूर्वति व्याप्नोति वा । अनुररुजनमनुरागः; तदनु स चासावनुरागश्च पूर्वानुरागः ततो द्वन्द्वः । पूर्वानुरागश्च मानात्मा च प्रवासश्च करुणश्च, तथा ते आत्मा यस्य सः पूर्वानुराग मानात्मप्रवामकरुणात्मक । पूर्वानुरागः १, मानात्मा २, प्रवासः ३. क णात्मक ४ इति विप्रलम्भः वियोगश्चतुर्विधो भवेत् । अयं पूर्वः १, प्रथमः २, गुरुर्निबिहः कः ? परमार्थस्तु तार्तीयोकः तार्तीयकाद्वितीयो द्वितीयादाद्यो दुःसहः इति ॥१६॥ 49. कारिकषा अ. शे. २०.११ इत्यनेन प्रायः समाना ।
१४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org