________________
१०४
ज्ञानप्रमोदगणिनिबद्धा भवेद्वासकसज्जाऽसौ सजिताङ्गरतालया । निश्चित्यागमनं भर्तुः द्वारेक्षणपरा यथा ।।११ । शु ति. १.७६ ] दृष्ट्वा दर्पणमण्डले निजवपु षां मनोहारिणी दीपार्चि कपिश च मोहनगृहं त्रस्यत्कुरङ्गीदृशा । एवं नो सुरतं भविष्यति चिरादद्येति सानन्दया कामं कान्तदिघक्षयाऽतिललिता द्वारे रगारोपिता ॥ [शु ति. १] यस्या रतिगुणाकृष्टः पतिः पार्श्व न मुञ्चति । विचित्रविभ्रमासक्ता सा स्वाधीनपतियथा ।।१३ [श ति १७४ ] लिखति कुचयोः पत्रं कण्ठे नियोजयति स्रज तिलकमलिके कुर्वन् गात्रा "दुदस्यति कुन्तलान् । इति चटुशतैर्वारंवारं वपुः परितः स्पृशन् विरहविधुरो नास्याः पावं विमुञ्चति वल्लभः ॥१४ [श. ति. १] या निर्लज्जीकृता बाढ मदनेन मदेन च । अभियाति प्रियं माऽभिसारिकेति मता यथा ॥१५॥ [श. ति. १.८०] नो भीतं तडितो दृशा जलमुचां तदर्शनाकाक्षया नो गर्जिणिता भृशं श्रुतिसुख तद्वाचि संचिन्त्य च । धारापातसमुद्भवा न च मता पीडा तदालिङ्गनं
वाउछन्त्या दयिताऽभिसारणविधौ तन्व्या परं तत्वरे ॥१६ [श. ति. १] इति ॥१४॥ पणाङ्गनास्वभावमातनुते
सामान्यवनिता वेश्या भवेत्कपटपण्डिता ।
न हि कश्चित्प्रियस्तस्याः दातारं नायकं विना ॥१४॥ गुणवदगुणयोः साधारणत्वाद्वित्तमात्रोपधिकसकलपुरुषाभिलाषा सामान्यवनिता। विशन्त्यस्मिन्नयनमनांसीति विशेषो दारिकाणां निवासः स्थानं वेशो वेश्या गृहेऽपि चेति तालव्यम् तेषु रभसः, तत्र । वेशे वाटे भवा वेश्या; 'दिगादित्वाद्य ' हे. व्या. ६.३.१२४] । वेशेन शोभते इत्येके । कामलेखा भवेत । किंभूता? कपटपण्डिता । कम्पयत्येन कपटम् । कपटकीकटादय इति साधुः। के मूर्ध्नि पटमिवाच्छादकमिति वा । पण्डो जाताऽस्याः, सा पण्डिता । ततस्तत्र पण्डिता कपटपण्डिता कैतवदक्षा । केवलद्रविणलब्धालम्बनेन कृत्रिमप्रणयत्वात् । यथा --
मनस्यन्यद्वचस्यन्यत् क्रियायामन्यदेव हि ।
यासां साधारणस्त्रीणां ताः कथं सुखहेतवः ।।हे.यो.शा. २.८८] अन्यच्च
मांसमिश्रं सुरामिश्रमनेकविटथुम्बितम् ।
को वेश्यावदनं धुम्बेदुच्छिष्टमिव भोजनम् ।।२ हे. यो. शा. २.८९] 45. मुले-'स्वाधीनपतिका' इति ।
46. मूले - गण्डा' इति । 47. भुले. 'तत्परे' इति ।
48. अ. शे. २०.५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org