________________
ज्ञानप्रमोदिकावृत्तिः एते धीराधीरादिषड्भेदाः द्विविधाः ज्येष्ठाः कनिष्ठाश्च । परिणीतत्वे सति भर्तुरधिकस्नेहा ज्येष्ठा, परिणीतत्वे सति भर्तुः न्यूनस्नेहा कनिष्ठा । धीरा ज्येष्ढा कनिष्ठा यथा--
एकस्मिन् शयने सरोरुहशोविज्ञाय निद्रा तयोरेका पल्लवितावगुण्ठनपटामुत्कन्धरो दृष्टवान् । अन्यस्याः सविध समेत्य निभृतव्यालोलहस्ताङ्गुलि
पारसनाचलं चपलयन् स्वापच्युति क्लुप्तवान् ।। [र. म. १८] अधीरा ज्येष्ढाकनिष्ठा यथा---
अन्तःकोपकषायिते प्रियतमे पश्यन् घने कानने पुष्पस्यावचयाय नम्रवदनामेकां समायोजयन् । अर्धोन्मीलितलोचनाचलचमत्काराभिरामाननां
स्मेरार्धाधरपल्लवां नववधूमन्यां समालिङ्गति ।।१३ [ र. म. १९] धीराधीरा ज्येष्ठाकनिष्ठा यथा--
धैर्याधैर्यपरिग्रहपहिलयो रेणीहशो. प्रीतये रत्नद्वन्द्वमनन्तकान्तिरुचिरं मुष्टिद्वये न्यस्तवान् । एकस्याः कलयन् करे प्रथमतो रत्नं परस्याः प्रियो
हस्ताहस्तिमिषात स्पृशन् कुचतटीमानन्दमाविन्दति ।।१४ र. म. २०] एताः द्वादश मुग्धयान्विताः त्रयोदशतद्विधाः । स्वकीया अनूढा कन्या १, परोढा परकीया २, पणाङ्गना वेश्या ३ । एतत्त्रयेण मिलिताः षोडषाऽप्यष्टाभिः - प्रोषितभर्तृका १, खण्डिता २, कलहान्त रेता ३, विपलब्धा ४, उस्का ५, वामकमज्जा ६, स्वाधीनपतिका ७, अभिमारिका च इतोह शाभिधानाभिरवस्थाभिगुणिताः अष्टाविंशत्यधिकशतसंख्याकाः भेदाः भवन्ति । तत्रापि चदोषानुरूपकोपायाऽनुनीनासु प्रसोदति । रज्यते च भृशं नाथे गुणहार्यात्तमेति सा ॥१५ [श, ति. १.७५]
दोषे स्वल्पेऽपि या कोपं धत्ते कष्टेन मुञ्चति । प्रयाति कारणाद्रागं मध्यमा सा मता यथा ।।१६ [श ति. १.९० ] या कुप्यति विना दोषैः स्निह्यत्यनुनयं विना ।
निर्हेतुकप्रवृत्तिश्च चलचित्तेति साऽधमा ।।१७ [श. ति. १.९१] इत्येवंविधलक्षणलक्षितोत्तमामध्यमाधमात्मकत्रिगुणनाच्चतुरशीत्युत्तरत्रिंशतीविधा: भवेयुः ३८४। इत्येतदर्थाधिकारस्तु शृङ्गारतिलके रसमऊजर्या च सविस्तरं व्याख्यातोऽस्तीति ततोऽयसेयः । एतद् वृत्तौ जिनवर्धन्यां तु त्रयोदशप्रकाराऽपि नायिकाः स्वकीयात्वेनैकैत्र गणिताः । तस्याश्च विशतिरलङ्काराः । तथा · लीला शृङ्गारचेष्टाविशेषो, वाग्वेषचेष्टितः प्रियस्यानुकृतिर्वा १ । वि अमः प्रिय पमोपगमने यः स्थानास नविलोकनेषु विकारः, अकस्माच्च क्रोधस्मित चमत्कारमुखविकूणनं २ । चिच्छित्तिः आभरणविलेपनादीनां कुतश्चित्प्रियापराधादीर्घकालानादरेण
40. मुले-'दोष' इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org