________________
१००
ज्ञानप्रमोदगणिनिबद्धा
य॒जिके भवेताम् । अधीरायाः वाक्पारुष्यं धीराधीरायाश्च वचनरुदिते कोपप्रसादके । प्रौढायास्तु धीराया रतौ[तावौ ?]दास्य, अधीरायान्तु तर्जनताडनादि, धीराधीरायाः रतोताचौ ? दास्यं तर्जनताडनादिकोपस्य प्रकाशकम् । मध्या धीरा यथा
कोऽयं द्वारि ? हरिः, प्रयातु विपिनं, शाखामृगस्यात्र कि, कृष्णोऽहं दयिते ! बिभेमि सुतरां कृष्णः पुनर्वानरः । मुग्धेऽहं मधुसूदनः, पिब लतां तामेव पुष्पोत्कटा
मित्थं निर्वचनीकृतो दयितयाऽस्फीतो हरिः पातु वः ॥१[सुभाषितावलिः १०४] अ.शे. पृ २७ तथा----
लोलोलिपुजे व्रजतो निकुजे स्फारीबभूवु:58 श्रमवारिधाराः ।
देहे समीहे भवतोऽभिधातुं 56 धीरं समीरं नलिनीदलेन ॥६ र. म. १२) मध्याऽधीरायाश्च यथा---
तस्ते निशि जागरो, मम पुनर्नेत्राम्बुजे शोणिमा निष्पोतं भवता मधु प्रविततं व्याघर्णितं मे मनः । भ्राम्यद्भुङ्गधने निकुजभवने लब्धं त्वया श्रीफलं
पञ्चेषुः पुनरेष मां हुतवहः करैः शरैः कृन्तति ॥७ [र. म. १३] मध्या धीराधीरा यथा
कान्तानुराग चतुरोऽसि मनोहरोऽसि नाथोऽसि किच नवयौवनभूषितोऽसि ।
इत्थं निगद्य सुदृशा वदने प्रियस्य निःश्वस्य बाष्पलुलिता निहिता हगन्ताः ।।८ [र. म. १४) अत्रास्याः सबाष्पत्वं दर्शितम् । प्रौढा त्रिविघा । तत्र प्रौढाधीरा यथा
नो तल्पं भजसे न जल्पसि सुधाधाराऽनुकारा गिरो दृस्यातं कुरुषे न वा परिजने क्रोधप्रकाशच्छलात् । इत्थं केतकगर्भगौरि दयिते कोपस्य संगोपनं
तत्स्यादेव न चेत्पुनः सहचरी कुर्वीत साचिस्मितम् ॥९ [र. म. १५] अत्र 'नो तल्पं भजसे' इत्यनेनोद्भूतकोपाया अपि, धीरत्वेन कोपाकृति गोपयित्वा सुधाधारानुकारा गिर' इत्याधुपचाराः । प्रौढा अधोरा यथा---
प्रतिफलमवलोक्य साऽयमिन्दोः कलायां हरशिरसि परस्यावासमाशङ्कमाना ।
गिरिशमचलकन्या तर्जयामास कम्पत्प्र पलवलयवल्गत्कान्तिभारं करेण ।।१० [र म. १६] अत्राधीरतया संतर्जनाघातौ स्पष्टौ प्रौढायाः धीराधीरायाः । आनुकूल्यौदासीन्ये यथा
तल्पोपान्तमुपेयुपि प्रियतमे वक्रीकृतग्रीवया काकुव्याकुलवाचि साचिहसितस्फूर्जत्कपोलश्रिया । हस्तन्यस्तकरे पुनमृगशा लाक्षारसक्षालित.
पौष्ठीपृष्ठमयूखमांसलरुचो विस्फारिताः दृष्टयः ।।११।। [र. म. १७] 35. मुले-'स्फारा वमूवुः' इति ।
___36. मूले-भवतो विधातु ' इति । 37. मूले-'दृवपात'' इति ।
38. मूले-'स्त्रीय मिन्दोः' इति । 39. मुले- कान्तिभाजा' इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org