________________
ज्ञानप्रमोदिकावृत्तिः द्वितोयां लक्षयति
देवतागुरुसाक्ष्येण स्वीकृता स्वीयनायिका ।"
क्षमावत्यतिगम्भीरप्रकृतिः सच्चरित्रभृत् ॥१२॥ या देवतागुरुसाक्ष्येण देवा एव देवताः, साऽस्य देवतेति ज्ञापकात् स्वार्थे तप्रत्ययः । गृणन्ति हिताहितप्राप्तिपरिहारावुपदिशन्तीति गुरवः । ततो देवताश्च गुरवश्च बता गुरवः, तेषां साक्ष्यं तेन उत्तमप्रकालनायकेन स्वीकृता, करे पीडिता, सा स्वीयनायिका स्वामिन्येवानुरक्ता स्वकीया भवेत् । कीदृशी? अमावतो । शुश्रधाशीलसंरक्षणार्जवं विद्यतेऽस्याः सा क्षमावती । अतिगम्भोरा प्रकृतिः स्वभावशे यस्याः सा । तथा सच्छेष्ठं च स्त्रं बिभर्तीति तथा। पतिव्रतानां प्राणेश्वरचित्तानुवृत्तधर्मत्वादिति भात्रः । इयं वयःकौशलाभ्यां मुग्धा १, मध्या २, प्रौढा ३ चेति त्रिविधा । तत्राद्योयाः कोपप्रभूतिकारचेष्टा न भवेयुर्मुग्धत्वात् । उदय [दित ? यौवना मुग्धा लज्जाविदितमन्मथेति लक्षणात् । सुरतेतरकाले स्त्रीणां होरेव भूषणमिति वचनात् । मुग्धा यथा---
हस्ते धूताऽपि शयने विनिवेशिताऽपि कोडे कृताऽपि यतते बहिरेव गन्तुम् । जानीमहे नववधूरथ तस्य वश्या यः पारदं० स्थिरयितुं क्षमते करेण ।।१॥ [र. म. ७ ] दरमुकुलितनेत्रपालि नीवी नियमितबाहुकृतोरुयुग्मबन्धम् ।
करकलितकुचस्थलं नवोढा स्वपिति समीपमुपेत्य कस्य यूनः ॥२॥ [ र. म. ८] लज्जामन्मथमध्यस्था मध्यमोदितयौवना । मध्या यथा । सागसि प्रेयसि धैर्य वक्रोक्तिः, अधैर्य परुष. वाक् । मध्या यथा---
खापे प्रियाननविलोकनहानिरेव स्वापच्युते 1 प्रियकरग्रहणप्रसङ्गः ।
इत्थं सरोरुह मुरवो परिचिन्तयन्ती स्वापं विधातुमाप हातुमापे प्रपेदे ॥३ [ र म ९) स्मरमन्दीकृतव्रीडा प्रौढा सम्पूर्णयौवना पतिमाविषयके लकलापकोविदा प्रौढा प्रगल्भेत्युच्यते । अस्यास्तु तिप्रीतिः आनन्दात्सम्मोहः । प्रथमं यथा
संस्पृश्य स्तनमाकलय्य वदनं संलिख्य गण्डस्थलीम्। निष्पीड्याधरबिम्बमम्बरमपाकृष्य व्युदस्यालकम् । देवस्याम्बुजिनीपतेः समुदयं जिज्ञासमाने प्रिये
बामाक्षी वसताञ्चलैः श्रवणयोर्नीलोत्पलं निड्नुते ।।४।। [र. म. १०] द्वितीयं यथा
नखक्षतमुर:म्थलेऽधरदले रदस्य व्रण च्युता बकुलमालिका विगलिता (च) मुक्तावलिः । रतान्तसमये मया सकलमेतदालोकितं स्मृति क्व च रति क्य च (क्व च तवालि शिक्षाविधि ।।५
[र. म. ११] मध्या प्रौढे मानावस्थितौ प्रत्येक त्रिप्रकारे धीराधीराधीराधीरा चेति । मध्यादिप्रकारे धीरादिभेद: स्वकीयाया एव न परकीयायाः । व्यंग्यकोपप्रकाशायाः मध्यायाः धीरायाः उत्प्रासबको(क्त गी29. प्रथमं पाद्वय-अ.शे. ...
30. मूले - पारतं ' इति ।। 31. मूले-'स्वापच्युती ' इति ।
32. मूले 'संश्लिष्य कण्ठस्थलं' इति । 33. इदं व. पुस्तके नास्ति।
34. ' स्वकीयायामेव न परकीयायाम्'-पा,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org