________________
ज्ञानप्रमादिकावृत्तिः
त सोऽनुकूला
व्यक्तपराङ्गनः ।.
का.ति. १.२५१
इतो नायकभेदाल्लक्षयति---
नीलीरागोऽनुकूलः स्यादनन्यरमणीरतः । दक्षिणवान्यचित्तोऽपि यः स्यादविकृतः स्त्रियाम् ॥८॥ प्रियं वक्त्यप्रियं तस्याः कुर्वन् यो विकृतः शठः ।
धृष्टो ज्ञातापराधोऽपि न विलक्षोऽवमानितः ॥९॥ नीलोव रागो यस्य, नील्या गुल्या राग इव रागो वा यस्य स तथा । दृढप्रीतिरित्यर्थः । अन्या चासो रमणी च, अन्येषां रमणी वाऽन्यरमणी, तस्यां रतः आसक्तः, न तथाऽनन्यरमणोरतः, परवनिताऽनासक्तश्च यः स्यात् सोऽनुकूलो नायकः कथ्यते । यथा---
अतिरक्ततया नार्यां सदा त्यक्तपराङ्गनः । सीतायां रामवत्सोऽयमनुकलः स्मृतो यथा ॥१॥ [२. ति. १.२५] वक्त्रस्याधरपल्लवस्य वचसो हासस्य लास्यस्य च धन्यानामरविन्दसुन्दरदृशां कान्तस्तनोति स्तुतिम् । स्वप्नेनापि न गच्छति श्रुतिपथं चेतःपथं दृक्पथं
काऽप्यन्या दयितस्य मे सखि कथं तस्यास्तु भेदग्रहः ॥१ रि. म. ७२] इह कान्तस्य मुहुः स्तुत्याऽऽनुकूल्यं परवनितानासक्तिश्च व्यज्यते ।१। च पुनः, यः, अन्यस्यां चित्तं यस्य सोऽन्यचित्तोऽपि परनितम्बिनीरक्तचेताः अपि, स्वकीयस्त्रियामविकृतः सामोदः, सः द्वयोरपि दाक्षिण्यस्वाभाव्यादक्षिण प्ररूप्यते । यदुक्तं
यो गौरवं भयं प्रेम दाक्षिण्यं 4 पूर्वयोषिति । न मुञ्चत्यन्यचित्तोऽपि ज्ञेयोऽसौ दक्षिणो यथा ॥२ [श. ति. १.२६] मैवास्य प्रणतिस्तदेव वचनं ता एव केलिक्रियाः । भीतिः सैव तदेव नर्ममधुरं पूर्वानुरागोचितम् । कान्तस्याप्रियकारिणीव भवती तं वक्ति दोषाविलं
किं स्यादित्थमहर्निशं सखि मनो दोलायते चिन्तया ॥३ शु. ति १] अत्रापरनायिकाक्षिप्तचित्तत्वेन निजरमणीप्रीतिसत्त्वेन दाक्षिण्यं व्यक्तीकृतम् ।
यस्तस्याः अभ्युपगतनायिकायाः, अप्रियमनिष्टं कुर्वन्, प्रियं चेतोभीष्टं, वक्ति ब्रूते स्वकीयागःगोपनाय, शठ प्रोद्यते । तदुक्तं
प्रियं वक्ति पुरोऽन्यत्र विप्रियं कुरुते भृशम ।
मुक्तापराधचेष्टस्तु कुटिलोऽसौ शठो यथा ॥१॥ [ शु. ति. १.२७ ॥ सरलतरले आवां तावद्बहुश्रुतिशालिनौ पुनरिह युवां सत्यं शिष्टं तदत्र कृतासि । प्रणयिनि पुनर्युक्तं रन्तुं न वेति बतावयो(वमुपगते कर्णो प्रष्टुं कुरादृशो दृशौ ॥२।। [ श. ति १] कृतागसीत्यनेन शठत्वं स्फुटम । ३
22. अ. शे.-२०.८,५,
23, अविरत तया-ला.
24. मूले तु -सदभावम् इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org