SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ज्ञानप्रमोदगणिनिषदा स्त्रियामा[मपि सूनृता, तादृशी गोर्यस्य सः सूनृतगीः सत्यवाणीकः सन्तः, वर्तमाना गुणा यस्य सः सद्गुणः । अष्ट च ते यथा दाक्ष्यशौर्योत्साहनीचजुगुप्सोत्तमस्पर्धाज्ञापिका शोभा यतः शरीराकाराद्यक्ष्यादिश्वसीयते । धीरे गतिदृष्टी यस्मिन्नकस्माच्च क्रोधस्मितवचश्चमत्कारमुखविकूणनं च विलासः २ । भूनेत्रादीनां सुकुमारन्वविधानेन करचरणागविन्यासो ललितम् ३ । बृहत्यपि सङ्ग्रामप्रयासादौ क्षोभनिमिते विद्यमानेऽप्यव्यग्रत्वं मार्यम ४। प्रत्यहे विद्यमानेऽप्यभियोगादपरिभ्रंशः स्थैर्यम ५ । प्रीतिप्रभृतिविकृत्यनुत्पत्तिविधायिगाम्भीर्य यतो मन्युप्रमुखाणां बहिर्विकारानयनविकासाननानुरागाद्याः नोत्पद्यन्ते ६ । स्वकीयवदन्येष्वपि परिज्ञानवितरणालापादिचेष्टा औदार्य ७ । पराधिक्षेपाघमर्षणं तेजः परात्सपत्नान्न तु गुरोः पितृसुहृत्प्रमुखात् ८ । एतादृशो नेता नायकः, ख्यातः प्रणीतः । स च चतुर्विधो यथा गुप्तदर्पः स्थिरो वीरः क्षमी चाप्यविकत्थनः। वृहत्सवो दृढव्रतश्च यः स्यात् १ स धीरोदात्तो यथा रामप्रमुखः १। तथोक्त भव्यः क्षमी स्थिररुचिः सुभगोऽभिमानी । स्त्रीणामतः सु [शु १] भवचा इह नायकः स्यात् ।। १ कलान्वितः सखीशृङ्गारी मृदुनिश्चितश्च यः, स धीरललितो यथा वत्सराजादिः । तथा चाह त्यागी कुलीन: कुशलो रतेषु कल्पः कलावित् तरुणो धनाढ्यः । इति २ [श. ति १.२३] । यो विनयोपशमी स धीरशान्तः माधवचारुचित्तादयः । ३ मायामात्सर्ययुक् शूरः छद्मवांश्च विकत्थनः । स धीरोद्धतो या[जामदग्न्यप्रभृतिकः स्मृतः ॥४ [ ] देवा धीरोद्धता ज्ञेयाः स्युधीरललिता नृपाः । सेनापतिरमात्यश्च धीरोदात्तौ प्रकीर्तितौ ॥१ [भा. प्र. ९.१०] धीरप्रशान्ता विज्ञेया ब्राह्मणा वणिजस्तथा । इति चत्वार एवेह नायकाः समुदाहृताः ॥२ [भा. प्र. ९.१०] इति चतुःप्रकारोऽप्यौत्तम्यानुलनेनैंक एव मन्तव्यः ।। ६ ।। अधुनेतस्य भेदान् ब्याचष्टे--- अयं च विबुधैरुक्तोऽनुकूलो दक्षिणः शठः । धृष्टश्चेति चतुर्धा स्यान्नायिकाऽस्य चतुर्विधा ॥७॥ अयमुत्तमनायको विबुधैः सुधीभिरिति, चतुर्विधः उक्तो भणितः । इतीति किम १ अनुकूल: १, दक्षिणः २, शठः ३, धृष्टः ४ च । अस्य नायकस्य नायिका चतुर्विधा चतुभेदा भवेत् , तल्लक्षणानि पुरः प्रदर्शयिष्यन्ते ॥७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001591
Book TitleGyanpramodika
Original Sutra AuthorGyanpramod Gani
AuthorR S Betai, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy