________________
ज्ञानप्रमोदिकावृत्तिः
अत्र रमणसङ्गमन्तरेण प्रज्वलन् सन्तापरूपस्तदवस्थ एव ।
यत्सङ्केतगृहं प्रियेण कथितं सम्प्रेष्य दूतीं स्वयं तच्छून्यं सुचिरं निषेव्य सुदृशा पश्चाच्च भग्नाशया । स्थानोपासनसूचनाय विगल-सान्द्राजनैरश्रुभिः
भूमावक्षरमालिकेव लिखिता दीर्घ रुदन्त्या शनैः ।।११।। [ श. ति. १] इह विप्रलम्भः प्रकट एव । इत्थं शृङ्गारस्योत्पत्तिप्रकाराश्चत्वारः, तत्रैकैकोऽप्यन्योन्यनिरीक्षणाधरपानचुम्बनायसंख्यविधः परमेक एव गण्यते । यथा
किमपि ललित स्निग्धैः किञ्चित् किमप्यतिकुञ्चितैः किमपि वलितैः५० कन्दर्पषून हसद्भिरिवेक्षणः । अभिमतमुखं वीक्षांचके नवागनया तथा
ललितकुशलोऽप्यालीलोको यथाऽतिविसिध्मिथे ।।१२ [श. ति. १] न हि निरनुरागे पुंसि नायिकानां दृष्टयो लज्जामनुभवन्ति। अनुभावकवेद्याश्चैवंविधा दृष्टयः। तथोक्तं--
सत्रासा इव सालसा इव लसद्गर्वा इवार्धा इव व्याजिरमा इव लक्षिता इव परिभ्रान्ता इवाः इव । त्वद्रपे निपतन्ति कुत्र न जगदेव प्रभो सुभ्रवां
वातावर्तननर्तितोत्पलद द्रोणिद्रुहो दृष्टयः ।।१३ [ ] तथा
अधरेऽमृतमस्ति योषितां हृदि हालाहलमेव केवलम् ।
अत एव निपीयतेऽधरो हृदयं मुष्टिभिरेव ताड्यते ॥१४ [ ] इत्यादयो निरीक्षणाधरपामप्रमुखा दृष्टान्ताः मन्तव्याः ।।५।।
समप्रगुणमय उत्तमो, भूयिष्ठगुणः स्तोकदोषो मध्यमः, भूरिदोषसमन्वितोऽधमः । तत्र प्रच्छन्नसंयोगे उत्तमनायकोऽधिकृत इति तं लक्षयति ।
रूपसौभाग्यसम्पन्नः कुलीनः कुशलो युवा ।
अनुदतः सनृतगीः ख्यातो नेताऽत्र सद्गुणः ॥६॥ अत्र प्रच्छन्नशमगारविषये रूपमाकृतिसौन्दर्य, सौभाग्यं सर्वजनवल्लभत्वं, ताभ्यां सम्पन्नस्तत्सम्पदुपेतः । किंभूतः कुलीन: ? श्रेष्ठवंशोभूतः । तथा कौशलति, कुशं लुनाति वा कुशलः, कुशाग्रीयमतित्वात् । प्रन्यप्रणीतागीकृतहावभावबोद्धा, युवावयःस्थः, अनुद्धतोऽविनीतत्वाद्यपेतः । तथा गुणातिगीः । सुष्टु नृत्यति सतां मनोऽनेने ते सूनृतम् । 'स्थादित्वात्के घञ्' । उपसर्गस्येति बाहुलकाहोर्ष ।
20. मूळे-' चलितः' इत्मपि पाठः । 21. मूळे- यथातिविसिस्मधे' इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org