SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ज्ञानप्रमोदगणिनिबदा एतेन हर्षवितर्कातिरेकत्वं सूचितम् । प्रच्छन्नसंयोगे यथाकिञ्चिद्वक्रितकण्ठकन्दलदलत्पीनस्तनावर्तन व्यायामाञ्चितकचुकं मृगहशः तस्यास्तदालोकितम् । वाचस्ताश्च विदग्धमुग्धमधुराः स्फारीभवन्मन्मथाः हंहो मानस किं स्मरस्यभिमताः सिद्धयन्ति पुण्यैः क्रियाः ॥ [श.ति. १] प्रच्छन्नविप्रलम्भो यथा सन्तप्तः स्मरसन्निवेशविवशैः श्वासैर्मुहुः पञ्चमोद्गारावर्तिभिरापतद्भिरभितः सिक्तश्च नेत्राम्बुभिः । एतस्याः प्रियविप्रयोगविधुरस्त्यक्त्वाधरो रागितां सम्प्रत्युद्धतवहिनवारिविषमं मन्ये व्रतं सेवते ॥५ [ श.. ति. १] प्रकाशविप्रलम्भे यथा कान्ते विचित्रसुरतक्रमबद्धरागे संकेतकेऽपि मृगशावहशा रसेन । तत्कूजितं किमपि येन तदीयतल्पं नाल्पैः परीतममुशक्रिदतपत्रिसंधैः ॥६ [ शु. ति. १] अनेन विषादाधिक्यं ज्ञापितम् पुनरपि संयोगद्वये स्वेदाश्रुरोमाञ्चश्वासतकेशबन्धांशुकसंयमनभूषामाल्यादिसम्यगनिवेशचाटुप्रभृतयोऽनुभावा यथा यत्र स्वेदलवैरलं विलुलितैः व्यालुप्यते चन्दनं सच्छेदैर्मणितैश्च यत्र रणितं निहूनूयते नूपुरम् । यत्रायान्त्यचिरेण सर्वविषयाः कामं तदेवाग्रतां सख्यस्तसुरतं भणामि धृतयेऽशेषा नु लोकस्थितिः ॥७ [शु ति. १] इह स्वेदलवेश्चन्दनापनयने नितम्बिन्याः सुरतसुखादयोऽनुमात्रा अवसीयन्ते । वामलोचनस्फुरणादिमया धृत्यादिभावा व्यभिचारिणो यथा स्फुरति यादेदमुच्चे. लोचनं तन्वि वामं स्तनतटमभिधत्ते चारुरोमाचमालाम् । कलयति च यदन्तः कम्पतेऽनूरुकाण्डं18 ननु वदति तदद्य प्रेयसा संगम ते १८ [ श.ति. २] अत्र 'प्रेयसा संगम ते' इति वचनेन धृत्याधिक्यम् भूयोऽपि विप्रलम्भद्वतये सन्तापकृशतादीनवचनजागरविलापलेखलिखनवाचनवार्ताप्रश्रमणोद्यमसन्देशाधिका अनुभावाः । जुमुप्साकोसोद्यापेताः, तद्भगने बोभत्मादिरसप्रत्ययो भवेद्यथा काश्य जागरसन्तापान् यः करोति श्रुतोऽप्यलम् । तमेव दुर्लभं कान्तं चेतः कस्मादिक्षसे ।।९ [श. ति १] इह कृशतादिको व्यक्तः । किं चन्दनः रचय मा च मृणालशय्यां मा मा ममालि धुनु कोमलतालवृन्तम् । मुठचाप्रहं विकचपकजयोजनेषु तत्सङगमः परमपाकुरुते स्मराग्नम् ।। (श ति. २] 17. मूळे-'स्तनतटमपि धते' इत्यपि पाठः । 18. मुले -' तामुहकाण्ड' इति । 19.-' रचयसे नु' रिचय मुच' इति पाठद्वयम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001591
Book TitleGyanpramodika
Original Sutra AuthorGyanpramod Gani
AuthorR S Betai, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy