________________
ज्ञानप्रमोदिकावृत्तिः यथोशं निर्देश इति न्यायेन प्रागुद्दिष्टं शृङ्गारं लक्षयति--
जायापत्योमिथो रत्यावृत्तिः शृङ्गार उच्यते ।
संयोगो विप्रलम्भश्चेत्येषस्तु द्विविधो मतः॥४॥ पतिरस्यां प्रविश्य पुनर्जायत इति जाया, पातीति पतिः; जाया च पतिश्च जायापती; तयोर्जायापत्योरभिधास्यमानलक्षणयोर्नायिकानायकयोः मिथोऽन्योन्यं रतेः शृङ्गारभावजायाः प्रेमविशेषस्यावृत्तिः भूयोभूयोऽनुशीलनं, स शुङ्गार उच्यते, विचक्षणैरित्यध्याहार्यम् । तु पुनः अवधारणे च । एषः । शुङ्गारनामा रसः इति । द्विविधः द्विप्रकारो, मतो भणितः । इतीति किम् ? एकः संयुज्येते जायापती अस्मिन्निति संयोगः । अपरः विशेषेण प्रलम्भ्येते वंच्येते जायापती प्रेमफलेनास्मिन्निति विप्रलम्भः॥४|| तौ केन प्रकारेण भवेतामिति व्याचष्टे
तौ तयोर्भवतो वाच्यो बुधैर्युक्तवियुक्तयोः ।।
प्रच्छन्नश्च प्रकाशश्च पुनरेष द्विधा मतः ॥५॥ तौ संयोगविप्रलम्भौ, तयोर्जायापत्योः, युक्तवियुक्तयोः संपृक्तासम्पृक्तयोर्भवतोः सतो, बुध. रमलधीभिनिरूपितव्यौ । एष पुनः शृङ्गारः प्राप्रणीतद्विप्रकारोऽपि द्विधा द्विविधः, प्रच्छन्नप्रकाशभेदात । संयोगः शृङ्गारः प्रच्छन्न. प्रकाशश्च स्यात् । द्वितीयश्चकारः स्वगतानेकभेदसूचकः । तेन विप्रलम्भोऽपि प्रच्छन्नः प्रकाशश्च । प्रच्छन्नो गढः, प्रकाशः स्पष्टः । एतेषु शुङ्गारप्रकारेषु परस्परस्पृहात्मिका रतिः स्थायी । मिथो वनिता मानवा वा आलम्बनरूपी विभावौ । यथा
म्लानं पाण्डु कृशं वियोगविधुरं लम्बालकं सालसं भूयस्तरक्ष गजातकान्तिसरसं जातं मयि प्रोषिते ।18 साटोपं रतिकेलिकालसरसं रम्यं किमप्यादरा
द्यत्पीतं सुतनोर्म या वदनकं वक्तुं न तत्पार्यते ॥१।। अ. श. ७८ ] 'सुतनो.' इति पदेन शरीरकााद्वदनं कश; 'वियोगविधुरं' इदं विशेषणं विभावकत्वेन सालसं यावत्सम्बध्यते । न हि वेधुर्यमेव केवलं वियोगविभावकं, म्लानत्वादोनामपि तद्विभावकत्वात् । 'भूय' इत्यादिना सुभगस्यालम्बनविभावकता व्यज्यते । तदुपयोगिपवनारामविधुभानूदयास्तसाललकेल्यादिमाः उहीपकलक्षणाश्च विभावाः । यथा---
मेधैर्मेदुरमम्बर वनभुवः श्यामास्तमालभैर्नक्तं भीरुरयं, तदेहि तदिमं राधे गृहं प्रापय । इत्थं नन्दनिदेशतश्चलितयोः प्रत्यध्वकुञ्जद्रुमं राधामाधवयोर्जयन्ति यमुनाकूले रहः केलयः ॥
गी गो. १.१] राधामाधवयो रेत्यादिभिर्वाक्यस्योद्दीपकविभावताऽवसीयते । प्रकाशयोगे प्रकाशसंभोगे यथा
मदनकु जरकुम्भनटोपमे स्तनयुगे परितः स्फुरितागुलिम् । स्वकरजक्षतवामपि प्रिया दयितपाणिममन्यत दक्षिणम् ॥३ (श.ति. १]
16. शतके तु- रभस प्राप्ते मयि प्रोषिते' 'मधुरं प्राप्ते मयि प्रोषिते'- इति बा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org