________________
ज्ञानप्रमोदगणिनिबद्धा
स्थायिनां नव भेदाः, ततो रसस्यापि नव स्युः, अतस्तानुद्दिशति--
शङ्गारवीरकरुणहास्यादुद्भुतभयानकाः ।
रौद्रवीभत्सशान्ताश्च नवैते निश्चिता बुधैः ॥३॥ श्रयत्येनं जन. शृङ्गार , इतरव्युत्पत्तिस्तु पूर्ववत् । रति म प्रमोदात्मको भावस्तदुपचयात्मको मानसविकारविशेष उत्तमप्रकृतिः शृङ्गारो नाम रस. । तदुक्त--
पुंसः स्त्रियां स्त्रियः पुंसि सयोगं प्रति या स्पृहा ।
स शृङ्गार इति ख्यातो रतिक्रीडादिकारणम् ॥ १॥ [ । धर्मार्थकामजत्वेन त्रिविधो हि सृङ्गारः । तत्राद्यस्तपोव्रतादिविहितः । आत्मविहितः यथा नन्दयन्त्या बाम गभोजनप्रभृतिक स्रदेशमात्मसात्कर्तुमुदयनस्य पद्मावती परिणयोऽर्थशङ्गारः । तस्यैव वासवदत्तापरिणयः कामशृङ्गारः १ । शूरवीरविक्रान्तौ-वीश्यन्ति विक्रामन्ति जनाः अनेनेत्यच् । वीरो दानयुद्धधर्मपुत्साहकारी वीररसः २।६ सुखं रुणद्धि, मूलविभुजादित्वात्के धस्य वर्गविकारे णत्वम् । यदा किरति विक्षिपति चित्तानीति करुणः । ऋकृतवदारिभ्यः उन' इत्युनः [हे.उ.१९६] । शोकोपचयात्मकः करुणः ३। हासे साधुर्यास्य , स एव वा सामाजिकानां चर्वणगोचरं गतो हासोपच यात्मको हास्यः ४ । अद्विस्मितं भवत्यने नास्मिन्वा मनः इत्यद्भुतः । 'अदो भुवो डुतः' इति दुतः (हे.उ.२१४।। विस्मयोपचयात्मकोऽदभुतः ५ । बिभेत्यस्मादिति भयानकः । भीशोभ्यामानको. भयोपचयात्म भयानकः, रुद्रस्यायं रौद्रो, रुद्रो देवताऽस्येति वा । उक्त च--
शङ्गारो विष्णुदेवः स्यात् हास्यः प्रमथदैवतः ।
करुणो यमदेवस्तु रूद्रो रुद्राधिदैवतः ।।१॥ ना. शा. ६.४९) क्रोधोपचयात्मको रौद्रः ७ । बीभत्साऽस्त्यस्मिन् बीभत्सी, जुगुप्सोपचयात्मको बोभत्सः ८ । शम्यते स्म शान्तः, उपशमोपचयात्मकः शान्तरसः । हास्यादयस्तु पुल्लिङ्गाः । गौडस्तु--
शृङ्गारवीरौ बीभत्सं रौद्रं हास्यं भयानकम् ।
करुणा चाद्भुतं शान्तं वात्सल्यं च रसा दश ।।इति । । लिङ्गनिर्णयमाह स्म -
रसौ शृङ्गारबीभत्सौ तथा वीरभयानको ।
रौद्राद्भुतौ तथा हास्य करुणौ वैरिणो मिथः ।। [ शू. ति ३ २१] अपरे तु--
शृङ्गारानुगतो हास्यः करुणो रौद्रकर्मज ।
वीरादद्भुत उत्पन्नो बीभत्साच्च भयानकः ।। इति । चतुर एव च रसानाहुरित्यर्थमूलटीकामनुसृत्योद्दिश्यते । उत्तममध्यमनीचप्रकृतीनां समस्तानां कामित्वात् प्राक् शृङ्गारस्योद्देशस्तदनु उत्तमप्रकृती भूरितरत्वाद्वीरस्य पुरतोऽवशिष्टानां क्रमेण सकलरसावतंसी. भूतस्य शान्तस्य प्रान्ते प्रतिष्ठा । प्रथमोदितानामष्टानामुपेक्षायामहिकपारत्रिकोदयाप्रसक्तो कन्यचनैवात्रसिततत्त्वस्य भूस्पृशः संभवादित्थं चेमे बुधैर्विद्वद्भिः नत्रसंख्याका एक रसा , न त्वतिरेकाः, न हीनाः न्यूना. निर्णताः ॥३॥ 14. ना. शा. ६.१९ इत्यनेन पाय; समान एष लोकः । रसरत्नप्रदीपिकायामपि १.२० - २ | दृष्टव्यो ।। 15. लोक एषः ना.शा. ६ ४४ इत्यनेन सह प्रायः समानः । द.रू. ४ १४-४ : अपि दृष्टयौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org