SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ज्ञानप्रमोदिकावृत्तिः संवेगः १६, जडताविष्टेष्वचेतनत्वं १७, गर्वः चित्तोन्नतिः १८, विपादः चेतोव्यथा १९, औत्सुक्यमुत्कण्ठा २०, निद्रा संलीनेन्द्रियत्वाच्छ्वासहेतुभि. २१, अपस्मारो धातुवैषम्यादेरावेशः २२, सुप्तं सुखसुप्तिका २३, प्रबोधो विगतप्रमीलत्वं २४, अमर्षः प्रतिचिकीर्षारूपः २५, अवहिस्थमाकारगुप्तिः २६, उप्रत्वं चण्डत्वं २७ मतिरर्थनिर्णय २८, व्याधिः व्याधिहेतुत्वाच्चेतोतिः २९, उन्मादश्चेतोविकृति. ३०, मरणं म्रियमाणता ३१, त्रासो निर्घातादिभ्योऽन्तःकरणचमत्कारलक्षणः ३२, वितकोऽध्याहार. ३३, इमे मानसास्त्रयस्त्रिंशदेव र नतिरेकास्तेनापरे एम्वेवान्तर्भावनीयाः। यथा कपटमहत्थे, उद्वेगो निवेदे, बुभुक्षापिपासाप्रभृतयो ग्लानौ । अमी निर्वेदादयो विविधमाभिमुख्येन चरन्ताति व्य भेचा रणस्तैः जातुचन नोद्भूता अपि निजहेतुध्वंसे विध्वस्यन्ते, अवगतपरमार्थस्य च न स्युः । तथा मन्त्रौषधिसमन्वितस्य कस्यापि मानवस्य जननान्तराले ग्लान्यालस्यक्लमप्रभृतयो न जायेरन्नेव । रत्याद्यास्तु विहितात्मीयकरणीयतया प्रलीनप्राया अपि संस्कारशेषतां न जहति । एकपदार्थविषये तव्यच्छेदेऽपि पदार्थान्तरविषये सत्त्वात्ततस्ते स्थायिनः । तथा 'अलस एष' इति भणिते, 'कस्मात् कस्मात्' इति हेतुप्रश्नः । तेन ग्लान्यालस्यादीनां व्यभिचारित्वम् । 'राघवः उत्साहशक्तिमान्' इति प्रोदिते 'कस्मात' इति हेत्वनुयोजनं न भवेत् । अतः उत्साहादीनां स्थायित्वम् । तथा च सति वृत्तताण्डवग्रन्थविख्यातैर्विभावैरनुभावैर्व्यभिचारिभिश्चोत्कर्ष व्यक्ततामारोप्यमाणः प्राप्यमाणो रत्यादिस्थायी, सहृदयः रस्यमान शृङ्गारादिरसः भणितः । कोऽर्थः ? रसस्य रत्यादिस्थायिनः उपादानकारणानि यथा घटस्य मृपिण्डः । ननु समवायिकारणं द्रव्यमेव भवेत् , रत्यादयस्तु गुणाः, तर्हि कथं तेषां समवाय कारणत्वमिति चेन्न । तेषां जन्तुद्रव्येभ्योऽविनाभावित्वेन द्रव्यत्वाच्छृङ्गारे काम्यं वस्तु प्रतियोगि[गी?] । यथा नरस्य वनिता, वनितायाः नरः । वारे स्वकीयपक्षविपक्षसत्कं धर्मयुद्धदानत्रिकम् । कझणे परिदेवनीयम् । हास्ये विकृताङ्गवचोवेषगत्यनुचेष्टनादि । अद्भुतेऽपूर्ववद्विस्मयात्मकमायेन्द्रजालादि । भयानके व्याघ्राहिमेघगर्जादि । रौद्रे प्रतिसपत्नादिः । बीभत्से लुठत्कृमिशुनीकलेवरप्रभृतिकम् । शान्ते रागद्वेषविरहोत्थभवासारताप्रमुखम् । इति प्रतियोगिनोऽमीषां दशास्मरणम् । असमवायकारणम् यथा घटस्य कपालद्वयसंयोगः । विभावा निमित्तकारणानि; यथा घटस्य दण्डचक्र. कुम्भकारचीवरादिमानि अनुभावा. सिद्धकृत्यानिः यथा सिद्धस्य घटस्य तोयधारणमांगल्यविधापनादीनि सात्त्विकव्यभिचारिणः स्वाभाविका; यथा घटस्य कम्बुग्रीवादिमद्रपाकारप्रमुखाः। तथोक्त स्थायिभावा. धिकारो प्रन्थान्तरे। शङ्गारादयो नवरसाः काव्ये नाट्ये च रसास्वादकत्वात् । यथा नानाव्यञ्जनसंस्कृतं शालिदाल्याद्यन्नं भुजाना रसानास्वादयन्ति सुमनसः पुरुषाः, सम्मदं च प्राप्नुवन्ति, तथा नानाभिनयव्यजितान् वागङ्गसत्त्वोपेतान् स्थायिभावानास्वादयान्त सुमनसः इति । यदुक्तवांश्च भरतः। स्थायिभावाः दृष्टीनामुपक्रमे । व्याक्रोशस्नेहमधुरा स्मितपूर्वाभिभाषिणी । अपाङ्गभूकृता दृष्टिः स्निग्धेयं रतिभावजा ।।१।। इत्यादि ।। 13. यथा.., इति-भरत ना. शा.. ६.३३ गद्य इत्यनेन प्राय: समानमिदम् । भरते यथा- "यथा मामान्यजन संस्कृतमत्र भुजाना रसानास्वादयन्ति सुमनसः पुरुषा:, हर्षादिव्याधि (?) गच्छन्ति, तथा नानामिन(य). व्यभिजतान् (बागड़सवोपेतान् !) स्थायिभावानास्वादयन्ति सुमनसः पुरुषा इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001591
Book TitleGyanpramodika
Original Sutra AuthorGyanpramod Gani
AuthorR S Betai, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy