________________
९०
भावा एवातिसम्पन्ना प्रयान्ति रसताममी ।
यथा द्रव्याणि भिन्नानि मधुरादिरसात्मताम् ||४|| ( शु. ति. १.१६]
सम्भवन्ति यथा वृक्षे पत्रपुष्पफलादयः । तद्रसेऽपि रुचिरा विशेषा भावरूपिणः || ५ || [ . ति. ११७]
प्रायोsनैकरसं काव्यं किञ्चिदत्रोपलभ्यते ।
बाहुल्येन भवेद्यस्तु स तद्वृत्त्या निगद्यते ||६ [ शू. ति. २.१८] कैशिक्यारभटी चैव सात्त्वती भारती तथा ।
चतस्रो वृत्तयो ज्ञेया रसावस्थानसूचकाः ||७|| [ शु. ति. ११९] स च त्रिधा - स्थायो १, सात्त्विको २, व्यभिचारी चेति ३ । तत्र स्थायीभावः प्रतिजीवं नवप्रकारो भवेत् । तानेवाह - रतिः १, उत्साहः २, शोकः ३, हास्यः ४, विस्मयः ५, भयं ६, द्वेषः ७, जुगुप्सा ८, उपशमः ९ । यस्मात्सकलो जन्तुः सातलम्पटो रिरंसते ९, आत्महितार्थमुत्सहते २, निजस्फूर्त्यपगमभयेन शोचते ३ हास्यमोहनीयोदयात् हसति ४, स्वकीयापरविहितवैचित्र्य निरीक्षणाद्विस्मयते ५, भयमोहनीय कर्मोदयाद्विभेति ६, अन्यस्मै द्वेष्टि ७, अपरं जुगुप्सते ८, वैराग्यवशात् किञ्चित् किञ्चित् परिहर्तुमनाः सन्नुपशमं निषेवते ९, नवभिरेतैरन्तःकरणव्यापारैः रहितः कश्चन कहिचन न भवेत् । सिद्धावस्था याः अर्वाक् परं कस्यचित् कश्चिदतिरेकः कश्चनो न, कश्चनानर्हेऽपि पदार्थे कस्यचित् सार्थकः कश्चनापरथापि तद्विशेषत एवोत्तममध्यमाधमभावाः जन्तौ भवेयुः । स्थायि व्यभिचारिलक्षणाश्चित्तवृत्तयो विभाव्यन्ते वैशिष्ट्येनावबुध्यन्ते एभिः विभावाः, वागाद्यभिनयोपेताः । आलम्बनोद्दीपनस्वरूपाः ललनोद्यानप्रभृतिकाः, कारणभूतास्ते च काव्ये नाट्ये विभावाः प्रोद्यन्ते । तैः सामाजिकलोकः स्थायिव्यभिचारिरूपं चेतोव्यापारविशेषमनुभवन् अनुकूलं भाव्यते एभिरित्यनुभावाः; अनुपश्चात् भावयन्ति 11 प्रकाशयन्तीति कटाक्षभुजाक्षेपाद्याः कार्यात्मकालावबोधकाऽभिनया अनुभावास्तैर्द्वयेऽप्यमेयाः । सीदन्त्य [त्य ?]स्मिन् मन इति सत्त्वम् ; मोहरागद्वेषादय एव सांख्यभाषायां सत्त्वरजस्तमांसि उच्यन्ते । तत्र सत्वेनाशयेन निर्वृत्ता इति सात्त्विकाः । समरूपं वस्तु, तत्रभवाः वा । ते चाष्टौ यथा -
ज्ञानप्रमोद गणिनिबद्धा
स्तम्भः १ स्वेदोऽथ रोमाञ्चः ३ स्वरभङ्गो ४
वेपथुः ५ ।
वैवर्ण्य ६ मधु ७ प्रलय ८ इत्यष्टौ सात्त्विकाः स्मृताः ।। [श. ति. १.१५ ]" तैः । निर्वेदः स्वावमाननं १, ग्लानिर्बलहीनता २, शङ्काऽनिष्टसंभावनं ३, असूया सत्स्वपि गुणेषु दोषारोपणं ४, मदः आनन्दसम्मोहयोः सङ्गमः ५, श्रमः प्रयासः ६, आलस्यं कार्ये उपेक्षा ७, दैन्यं कृपणत्वं ८, चिन्ता ध्यानं ९, मोहो मौढ्यं १०, स्मृतिराध्यानं ११, धृतिः स्वास्थ्यं १२, व्रीडाऽन्तःकरणसंकोच : १३, चपलता मनोऽनवस्थिति: १४, हर्षा मानसप्रसादः १५, आवेगः 8. लोक एषः ना. शा. ६.४१ इत्यनेन समान: ।
9. लोक एषः ना. शा. ६.४२ इत्यनेन समानः ।
10. सूचिका:-पु.
11. 'रूपं येतो... भावयन्ति प्र, इदं पा. पुस्तके नास्ति ।
12. श्लोक एक ना. शा. ७.१४८ इत्यनेन सह प्रायः समानः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org