________________
पञ्चमः परिच्छेदः
अथ रसान् प्रकटयिषुर्व्याचष्टे
साधुपाकेऽप्यनास्वाद्यं भोज्यं निर्लवणं यथा । तथैव नीरसं काव्यमिति ब्रूमो रसानिह ॥ १ ॥ '
यथा भोक्तुमई भोज्यं शाल्यादिकं, पाचनं पाकः साधुः सुन्दरः स चासौ पाकश्च स तथा । तस्मिन्साधुपाकेऽपि विदग्धसूपकारेण निष्पादितेऽपि । निर्गतं लवणान्निर्लवणं, निर्गतं लवणं यस्माद्वा, तादृशं सदनास्त्राचं आस्वादयितुमनुचितं अस्वादु भवेत् । तथैव तेनैव प्रकारेण, काव्यं वृत्तं अभिज्ञकविना रचितमपि शृङ्गारादिरसाऽपेतमनास्वाद्यम् । विचक्षणान्तःकरणं न चमत्करोति इति हेतोः काव्यकर्ता मन्त्रीशवाग्भटरूपा ब्रुवन्ति, इह प्रन्थे वयं रसान् ब्रूमः व्यक्तं भणामः । विश्वत्रयीव्याप्तानां रसानां सव्यासं ग्रन्थपर्यन्तमात्रे कथमवतारं विधापयिष्यति इत्याशङ्कया विपुलधियामवही [हे]लना मा भूयादिति आत्मनो विस्तरसंक्षेपक्षमत्वबोधनाय, वयमिति बहुवचनं अस्मदोर्दोईयोश्चेत्यनेन समानीतम् ॥ १ ॥
विभावैरनुभावैश्व सात्त्विकैर्व्यभिचारिभिः ।
आरोप्यमाण उत्कर्ष स्थायीभावः स्मृतो रसः ॥ २ ॥
नित्यं तिष्ठतीति स्थायो, सामाजिकानां वासनारूपेण तिष्ठतीति वा । भावयत्यश्नुतेऽन्तःकरणं विभावप्रमुखैः व्यक्तीकृत्य रसतां नीतः सन्निति भावः ।
विभावेनात योऽर्थस्त्वनुभावेश्व गम्यते । वागङ्गसत्वाभिनयैः स भाव इति संज्ञितः ॥१॥ कवेरन्तर्गतं भावं भावयन्भाव उच्यते । बाह्यस्वरूपमालम्ब्य सुखदुःखमयं शुभम् ||२|| जायते या मनोऽवस्था स भाव इति संज्ञितः । Traise विभाव्यन्ते वागङ्गाभिनयाश्रिताः ॥ ३"
1. फारिकेषा 'अलङ्कारशेखर' २०, आरम्भे यः श्लोकः तस्य प्रायः समाना |
2. पचनं-पु.
3 'मा भूदिति'- ५.
4. 'अनुभावैर्विभावेश्व' - पा. कारिकेषा दश. ४.१ इत्यनेन समाना ।
5. ना. शा. ७.२ इत्येष लोक अनेन समान: ।
6. बा. शा. ७.३ इत्येष श्लोक अनेन समानः ।
7. ना. शा. ७६ इत्यनेन श्लोक एषः समानः ।
Jain Education International
For Private & Personal Use Only
१२
www.jainelibrary.org