________________
८८
ज्ञानप्रमोदगणिनिवदा ताम्यत्यनेन तुङ्गम् ; "कमितमीतिडत्" हे. उ. १०७] तुङ्गः । गृह्यन्ते ग्रावाणः, 'गृहे राचेति वन् । कृन्तन्ति कराः; ‘कृतेः' हे व्या. ६.३.१९२] क्रूकछौवेति रः । तुदन्ति तुच्छाः, 'तुदि मदीति छक्' हे उ. १२४] न तुच्छाः अतुच्छाः । कच्यते कच्छः, कचेः छः । सिन्धूनां सरसां च प्रान्तभागः तं कच्छ पान्ति कच्छपा : कच्छेन पिबन्ति इति. कुत्सितं शपन्ति इति वा । कोलन्ति सन्त्स्यायन्ति कुलानि । ततोऽन्वये तैरुत्पाटितं यत्तुङ्गमुन्नतं पर्वतशतं, तस्य ये ग्रात्राणः प्रस्तराः, तेषां प्रपतनं प्रपातः तस्या हननमाह-तिराघातः, तेन क्रूराः कर्कशाः, आक्रन्दन्तः आक्रन्दध्वनि विदधतः, ये अतुच्छाः भूयांसः कच्छपाः कमठाः, तेषां केङ्काराः, तैः आरवविशेषः घोरीकृतो भैरवीकृतः । पुनः किंलक्षणः ? स्फुरन् स्फुर्जन, तथा बहलो निविडतर । कीदृश्याः ? सिप्रागायाः। बर्बरदनुजेन बध्यमानं पयः सलिलं, यस्याः सा तथा तस्याः बर्बरबध्यमानपयसः । दर्पोत्पाटितेतीह गौडीया । विश्वमित्यादौ वैदर्भी च, एतद् वृत्तविधातुः दूषणम् । इदं हि काव्यं मालवराष्ट्रक्षितिपतिना परमाडिसंज्ञकेन साकं संग्रामः, यतः श्रीजयसिंहदेवस्य मालवसाहाय्यकृद्बबररक्षोरणेडायां प्रणीतम् ॥१५२।। अथ वैदर्भी दृष्टान्तयति --
विप्राः प्रकृत्यैव भवन्ति लोलाः लोकोक्तिरेषा न मृषा कदाचित ।
यच्चुम्ब्यमानां मधुपैर्द्विजेशः श्लिष्यत्ययं कैरविणीं कराग्रेः ॥१५३॥ एषा लोकोक्तिः कदाचित् कस्मिश्चन काले । मृष्यते मृषादि विपुरीति किदाः, मृषावादो न भवति । विप्राः -विविधं प्रान्ति पूरयन्ति विप्राः, विशेषेण पान्तोति वा । खुरक्षुरेति रे निपात्यते वाडवा, प्रक्रियतेऽनया प्रकृतिः, तया प्रकृत्या स्वरूपेणैवेत्यवधारणे । लोलन्तीति लोलाः, लोल उन्मादने, नाम्युपधात्के, डलयोरेकत्वे तत्सिद्धौ लोलाः विवेकराहित्येन चञ्चला भवन्ति । यद्यस्मात्कारणादसौ द्विजेशो रोहिणीपतिः: करवाणि विद्यन्ते यस्यां सा कैरविणी, तां कुमुदिनी कराग्रेर्दीप्तिकोदिभिः श्लिष्यति स्पृशति । कीदृशीं कैरविणीम् ? मधु मकरन्दं मद्यं पिवन्तीति मधुपाः, तै चुम्ब्यमानाम् । मधुपाः षट्पदाः । द्विर्जायन्ते द्विजाः, तेषामीशो द्विजेशश्चन्द्रमा ब्राह्मणविभुश्च । अथ मधुपाः मद्यपाः कराप्रैः पाणिकोटिभिः स्पृशन्ति, अतो लोलत्वम् ।।१५३॥
ननु ग्रन्थान्तरेष्वलकृतिभूयस्त्वमर्थविशेषचमत्कारविधायित्वं चावसीयते । अतः कथं इयत्यः एवालकियाः इत्याशङ्कापनोदायेदं वक्ति
अथैन येनातिचमत्कारोति प्रायः कवित्वं कृतिनां मनःसु ।
अलङ्क्रियात्वेन स एव तस्मिन्नभ्युह्यतां हन्त दिशाऽनयैव ॥१५४ । येनार्थेनाभिधेयेन कवित्वं वृत्तं प्रायः प्रकशायते, प्रायो बाहुल्येन, कृतिनां वागीशानां मनःस्वन्तः करणेष्वतिचमत्करोति अतीव चमत्कार विधायकं स्यात् , तस्मिन्वृत्ते स एवार्थः । हन्तेति प्रीती। अनया, दिशन्ति तामिति दिक्, तया दिशा एतेन मत्प्रणीतेन प्रकारेणालङ्कृतित्वमभ्युह्यतां तय॑ताम् । एतावता यस्मिन् काव्ये योऽर्थी विस्मयविधाता, स तस्मिन्नलङ्कारत्वेन मन्तव्यः ॥१५४।।
इति श्रीवृहत्खरतरगच्छे भट्टारकप्रभुश्रीजिनराजसूरिविजयिराज्ये श्रीसागरचन्द्रसूरिसन्ताने पट्टानुकमसजातश्रीमद्वाचनाचार्यरत्नधीरगणिप्रवरविनेयवाचनाचार्य
ज्ञानप्रमोदगणिविनिर्मितायां वाग्भटालङ्कारवृत्तौ चतुर्थः परिच्छेदः ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org