________________
७
ज्ञानप्रमोदिकावृत्तिः
यत्रातिप्रबलतया गुणः समानाधिकरणं समानम् ।
अर्थान्तरं विदध्यात् आविर्भूतमपि तत्पिहितम् ।। [ रु. का. ९५०] . इति पिहितालङ्कारः।
मन्मथोऽप्यायि तच्छाया सैव कान्तिरिति स्मृता । विस्पृष्टे समकालं कारणमन्यत्र कार्यमन्यत्र ।
यस्यामुपलभ्येते विज्ञेयाऽसङ्गतिः सेयम् ।। [रु. का. ९.४८ ] इत्यसङ्गतिरलकारः ।
दोषीभावो यस्मिन् गुणस्य दोषस्य च गुणीभावः ।
अभिधीयते तथाविधः कर्मनिमित्तः स लेश: ।। [रु. का. ७.१००] इति लेशालङ्कारः ।
व्याजोक्तिश्छद्मनोद्भिन्नवस्तुरूपनिगृहनम् । [ का. प्र. १०.११८ ] [इति] व्याजोक्तिरलङ्कारः ।
इङ्गिताकारलक्ष्योऽर्थः सौम्यात्सूक्ष्म इति स्मृतः ।। [ का द. २.२६० ] [ इति ] सूक्ष्मालङ्कारः । इत्यादिकानामलकृतीनां सलक्षणानां काव्यप्रकाशदण्डयाद्यलङ्कारशास्त्रमाघसर्वकषावृत्त्यादिषुभाणतानामुक्तान्तर्भाव एवात्रानुक्तानामित्यभ्यूहथम् । यथा समासोक्तावन्योक्तेरन्तर्भावः । यत एव 'सौन्दर्यमलङकार' इत बीजं, अत एव कथिताभ्योऽलङ्कृतिभ्योऽपरासामक्रियाणामत्कारिताभावादनिबन्ध एव प्रशस्यतरः ।।१५।।
द्वे एव रीती गौडीया वैदर्भी चेति सान्तरे ।
एका भूय:समासा स्यादसमस्तपदापरा ॥१५॥ द्वे एव रीती विद्येते गौडीया वैदर्भी चेति । कीदृश्यो ? अन्तरेण विशेषेण सह वर्तमाने सान्तरे भिन्नलक्षणे । तदेव स्पष्टयति । एका गौडीया रीतिः; भूयान् समासो यस्याः सा तथा भूरितरसमासा स्यात् । अपरा द्वितीया वैदर्भीया रीतिः । न समस्तानि समाससहितानि पदानि यस्याः सा असमासा भवेत् । ननु वेदर्भमार्गे सर्वथा समास एव न स्यादिति चेन्न ओजसः समासभूयस्त्वात् तर्हि । ओजसो गुण एव गौडीये मार्गे, इति चेन्न । गौडीये केवलं यथाशक्ति समास एव, वैदर्भ पुनः श्लेषप्रसादयोरपीति ॥१५॥
एतर्हि ग डीयामुदाहरतिदर्पोत्पाटिततुङ्गपर्वतशतग्रावप्रतापाहतिक्रूराक्रन्ददतुच्छकच्छपकुलक्रेङ्कारघोरीकृतः । विश्वं बर्बरबध्यमानपयसः सिप्रापगाया स्फुरन्नाक्रामत्ययमक्रमेण बहल: कल्लोलकोलाहलः॥१५२
अपां समूह आपोऽर्णवः, तं गच्छत्यापगा; आपेन वेगेन गच्छतीति वा; सिप्रासंज्ञिका आपगा सिप्रा. पगा । कल्ल अव्यक्ते शब्दे, कल्यन्ते कल्लन्ते वा; उभे उणादिके कल्लोलाः । कुत्सिता लोला इत्येके । कोलमप्याह-लति त्रासयति कोलाहलः । भूयोभिर्मिलित्वा शब्दे विहिते कोलाहलः । तेषां कोलाहलः कल्लोलकोलाहलः । ततोऽन्वये तस्याः सिप्रा(प्र)गायाः सिप्रायाः तटिन्याः अयं कल्लोलकोलाहलः तरङ्गकलकलः । अनुक्रमेण युगपद्विशन्ति सर्वेऽस्मिन्तिति विश्वम् । 'अशिलटिखटिविशिभ्यः क्व' इति क्वः । जगदाक्रामति । किलक्षणः कल्लोलकोलाहल: ? दर्पणं दर्पः अभिमानः । 62. तेषां कोलाहल:...कोलाहल:-इदं व. पुस्तके नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org